Перевод шукра нити 28

शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा ।
छन्दः षडङ्गानीमानि वेदानां कीर्त्तितानि हि ॥ २८ ॥

अन्वयः—शिक्षा, व्याकरणं, कल्पः, निरुक्तं, ज्योतिषं तथा छन्दः—इमानि षट् वेदानाम् अङ्गानि
कीर्त्तितानि ॥ २८ ॥

व्याख्या—शिक्षा = अध्ययनाध्यापनसम्बन्धिवेदाङ्गविशेषः, व्याकरणम् = व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेनेति शब्दशास्त्रस्वरूपवेदाङ्गः, कल्पः= धर्मकृत्यविधायको वेदाङ्गभेदः, निरुक्तम् = यास्कमुनिप्रणीतः ग्रन्थविशेषः, ज्योतिषम् = ज्योतिर्विद्या, तथा छन्दः = वृत्तशास्त्रम्, इमानि षट्, वेदानाम् = श्रुतीनाम्, अङ्गानि हि = अवधारणार्थोऽयं शब्दः, कीर्त्तितानि = कथितानि ॥ २८ ॥

हिन्दी—शिक्षा, व्याकरण, कल्प, निरुक्त, ज्योतिष तथा छन्द–ये छः वेदाङ्ग कहलाते हैं ॥ २८ ॥

शिक्षेति । शिक्षा व्याकरणं कल्पः निरुक्तं ज्योतिषः तथा छन्दः इमानि षट् वेदानाम् अङ्गानि कीत्तितानि, हिशब्दोऽवधारणार्थः॥ २८ ॥

Шикша (Произношение), Грамматика, Кальпа(наука о ритуале), Нирукта(наука о словообразовании), Джйотиш(Астрономия), Чханда(наука о стихотворных размерах) — это 6 частей Ведангой(сборник шастр для понимания Вед) называют.

Перевод шукра нити 28

Добавить комментарий

Пролистать наверх