ब्रह्मैकमद्वितीयं स्यान्नाना नेहास्ति किञ्चन । ·
मायिकं सर्वमज्ञानाद् भाति वेदान्तिनां मतम् ॥ ५० ॥
अन्वयः -— एकं किञ्चन ब्रह्म स्यात्, इह नाना नास्ति सर्वं मायिकम् अज्ञानात् भाति, इति
वेदान्तिनं मतम् ॥ ५० ॥व्याख्या—एकम् = अतुलनीयम्, किञ्चन = किमपि वस्तु, ब्रह्म = परमेश्वरः, स्यात् = भवेत्, = नहि, अस्ति = भवति, अन्यत् सर्वम्= इह = अस्मिन् संसारे, नाना = बहुविधम्, ब्रह्म, न = नहि, अस्ति = भवति, सकलम्, मायिकम् = मायामयम्, मिथ्यास्वरूपम्, अज्ञानात् सत्यवत्प्रतीयते इति = एवम्, वेदान्तिनम्, मतम् = सिद्धान्तम् । वेदान्तदर्शनं सर्वदर्शनमूर्धन्यमस्ति । शारीरकमीमांसेत्येतयापि समाख्ययेदं शास्त्रं सर्वविदितमेव । सन्त्यस्योपजीव्या उपनिषद एव । वेदस्यान्तिमसिद्धान्तस्य निरूपकत्वादुपनिषदामिवास्यापि वेदान्त इत्येषा संज्ञाऽन्वर्था ॥ ५० ॥
हिन्दी—इस संसार में ‘ब्रह्म’ अतुलनीय और अनिर्वचनीय है, ब्रह्म अनेक नहीं हो इनसे भिन्न जो कुछ दृश्य हैं, वे सभी ‘माया’ हैं । माया से उत्पन्न अज्ञानवश ही लोगों को असत्य में सत्य की प्रतीति होती है; यह वेदान्तियों का मत है ॥ ५० ॥
ब्रह्मेति । एकम् अद्वितीयं किञ्चन किमपि वस्तु ब्रह्म स्यात्, इह जगति नाना विविधं ब्रह्म न अस्ति । अन्यत् सर्वं मायिकं मायामयं मिथ्यास्वरूपम् अज्ञानात् भाति विराजते, इति वेदान्तिनां मतम् ॥ ५० ॥
В этом мире «Брахман» несравним и неописуем, Брахман един, его видимые различия — «Майя» (Иллюзия). Из-за невежества, возникающего из иллюзии, люди почитают ложь за истину; Это мнение тех кто следует Веданте (филиософской части Вед = Веда Ант).