चित्तवृत्तिनिरोधस्तु प्राणसंयमनादिभिः ।
तद् योगशास्त्रं विज्ञेयं यस्मिन् ध्यानसमाधितः ॥ ५१ ॥
अन्वयः—यस्मिन् ध्यानसमाधितः प्राणसंयमनादिभिः चित्तवृत्तिनिरोधस्तु तत् योगशास्त्रं विज्ञेयम् ॥ ५१ ॥
व्याख्या– यस्मिन् = विषये, ध्यानसमाधितः = एकाग्रचित्तेन ब्रह्मणि मनोनिवेशनेन, प्राणसंयमनादिभिः प्राणानाम् = अन्तश्चराणां वायूनाम्, संयमनादिभिः = नियन्त्रणादिभिः, चित्तवृत्तिनिरोधः — चित्तवृत्तेः = मनोवृत्तेः, निरोधः = अवरोधः कथितः, तत् योगशास्त्रम् = मोक्षो- पायकदर्शनशास्त्रविशेषः, विज्ञेयम् = ज्ञातव्यम् ।
यावच्चित्ते विकारा जायन्ते तावत्तस्मिन्नात्मनः प्रकाशोऽवतरति, विवेकज्ञानाभावात् पुरुषस्तेष्वेव विकारेषु स्वसत्ताया अनुभूतिं कर्तुमारभते । सांसारिकेषु च विषयेषु सुखदुःख- रागद्वेषाधिक्यं निबध्नाति । आत्मनः पुरुषस्य एवंविधतैव बन्धनमिति कथ्यते । एतस्माद्बन्धनान्मुक्तिअवाप्तिनिमित्तेन शरीरेन्द्रियमनश्चित्तवृत्तीनां निरोधोऽपेक्ष्यते । यदाहि कार्यभूतचित्तस्य धाराप्रवाहश्छिद्यते, भवति च तत् कारणभूतचित्तेः शान्तावस्थायामवस्थितिं तदात्मा स्वकीयस्य यथार्थस्य स्वरूपस्य ज्ञानमश्नुते । अवगच्छति च तत् आत्मानं शरीरमन आदितो भिन्नम् अवेति च स्वं नित्यं मुक्तं शुद्धं चैतन्यरूपञ्च । चित्तवृत्तिनिरोधेनात्मनः स्वरूपेऽवस्थापनमेवास्य योगशास्त्रस्योद्देश्यम् ॥ ५१ ॥
हिन्दी—जिसमें एकग्रता के साथ ध्यान एवं कुम्भकादि प्राणायाम द्वारा चित्त की वृत्तियों का निरोध करना बतलाया गया हो, उसे योगशास्त्र कहते हैं ॥ ५१ ॥
चित्तेति। यस्मिन् ध्यानसमाधितः ऐकाग्र्येण चिन्तनेन प्राणानाम् अन्तश्चराणां मरुतां संयमनादिभिः कुम्भकादिभिरिति भावः, चित्तवृत्तेः मनोवृत्तेः निरोधः विषयान्तरेभ्यः व्यावृत्तिः कथित इति शेषः, तत् योगशास्त्रं विज्ञेयम् ॥ ५१ ॥
Та в которой рассказывается о медитации с концентрацией Кумбхакади Пранаяма и контролем чистого сознания (चित्त) от вихрей (वृत्तियों) эмоций и ума , называется Йогашастра.