Шукра нити 53

अन्वयः — यस्मिन् सर्गः प्रतिसर्गः वंशः मन्वन्तराणि च तथा वंशानुचरितं तत् पुराणं विकीर्त्तितम् ॥ ५३ ॥

व्याख्या – यस्मिन् = ग्रन्थे, सर्गः = जगदुत्पत्तिः, प्रतिसर्गः = प्रलयः, वंशः = श्रीमतां कुलम्, मन्वन्तराणि = ब्रह्मादिनस्य चतुर्दशो भागः, वा, एकसप्ततिचतुर्युग्यात्मकः कालः, च = पुनः, तथा = तेनैव रूपेण, वंशानुचरितम् = एकस्य परिवारस्य कुलस्य वा, परिचयः, प्रकीर्त्तितमिति शेषः, तत् = शास्त्रम्, पुराणम्, विकीर्त्तितम् = कथितम् ॥ ५३ ॥

पुरातनत्वादत्यन्तपुरातनत्वाच्च सम्भवतः पुराणमित्येतेन नाम्ना इमानि सन्ति सुप्रथितानि । पुराणानां गणना क्वाऽपि क्वापीतिहासेऽपि क्रियते परं वस्तुतः पुराणानि न सन्तीती- हासान्तर्गतानि । इतिहासः अतीतघटनावर्णनपरत्वान्नापुराणम् । पुराणमितिहासाङ्गीकृतं विषयं सीमितपरिधेराकृष्य तं विस्तृतं स्वरं व्यापकतरं च कुरुते । तस्मादितिहासपुराणे स्व-स्वर्वैशिष्ट्यवत्वाच्छुक्राचार्येण पृथक् पृथगेव लक्षणं प्रोक्तम्। किञ्च पुराणमाश्रित्य तेन यदुक्तं—
«सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं यस्मिन् पुराणं तद् विकीर्त्तितम् ॥”
तन्न युक्तितरं प्रतिभाति । यतो ह्येतस्मिल्लक्षणे येषां विषयाणां निर्देशः कृतस्तेभ्योऽप्यधिकाः विषया वर्णिताः प्राप्यन्ते । पुष्कलविविधविषयनिधित्वादग्निपुराणन्तु भारतीयज्ञानकोष इति नाम्ना सुविदितमेव । अनेकानि पुराणानि तु एतादृश्यान्यपि दृश्यन्ते येषूपर्युक्तं लक्षणनिर्दिष्टाः पञ्चापि विषयाः न प्राप्यन्ते ॥ ५३ ॥

हिन्दी — जिस ग्रन्थ में संसार की उत्पत्ति एवं विनष्टि, महापुरुषों के वंश, मन्वन्तर तथा वंशानुचरित का वर्णन हो, उसे पुराण कहते हैं ॥ ५३ ॥

सर्ग इति । यस्मिन् सर्गः सृष्टिः, प्रतिसर्गः, प्रलयः, वंश: महापुरुषाणां कुलं मन्वन्तराणि तथा वंशानुचरितं कथितमिति शेषः, तत् पुराणं विकीर्त्तितम् ॥ ५३ ॥

Книга, в которой описывается происхождение и разрушение мира, родословная великих людей, манвантара(период времени) и генеалогия, называется Пурана.

Шукра нити 53
Пролистать наверх