युक्तिर्बलीयसी यत्र सर्वं स्वाभाविकं मतम् ।
कस्यापि नेश्वरः कर्त्ता न वेदो नास्तिकं हि तत् ।। ५५ ।।
अन्वयः—यत्र युक्तिर्बलीयसी, सर्वं स्वाभाविकं मतं कस्यापि कर्त्ता ईश्वरः न वेदश्च न, तत् नास्तिकाम् ॥ ५५ ॥
व्याख्या—यत्र = यस्मिन्सिद्धान्ते, युक्तिः = ऊहा, बलीयसी : अतिबलवती, सर्वम्= निखिलं वस्तु, स्वाभाविकम् = नैसर्गिकम्, मतम् = निष्पादितम्, कस्यापि = वस्तुनः, कर्त्ता = निर्माता, ईश्वरः= परमात्मा, न = नहि, अस्तीति भावः, तथा = तेनैव प्रकारेण, वेदः — श्रुतिश्च, न = नास्त्येव, इत्येवं व्यवस्थेति, तत् = एवंविधः, हि = इति निश्चयेन, नास्तिकम् = नास्तिकग्रन्थविशेष इति ॥ ५५ ॥
नास्तिकदर्शनं प्रत्यक्षमेव प्रमाणं स्वीकुरुते । तद्वादोऽयं यदीन्द्रियैरेव विष्वासार्हं ज्ञानमवाप्तुं शक्यम्। इन्द्रियजनितज्ञानमेव यथार्थज्ञानमस्ति । प्रत्यक्षं विहाय नेदं दर्शनं दर्शनान्तरमता- न्यनुमानशब्दानि प्रमाणानि प्रमाणत्वेन मन्यन्ते ।
हिन्दी — जिसमें तर्क को सर्वश्रेष्ठ प्रमाण माना गया हो एवं प्रत्येक वस्तु की उत्पत्ति स्वभावसिद्ध मानी गई हो तथा ईश्वर को जगत् का कर्त्ता न माना गया हो, वेद को अमान्य करता हो, उसे नास्तिक दर्शन कहते हैं ॥५५ ॥
युक्तिरिति । यत्र युक्तिः तर्कः बलीयसी अतिप्रबला, सर्वं वस्तु स्वाभाविकं स्वभावसिद्धं । मतं कथितं, कस्यापि कर्त्ता कारकः ईश्वरः न अस्तीति शेषः, तथा वेदश्च न। अकिञ्चित्कर इत्यर्थः, इत्येवं व्यवस्था इति शेषः, तत् हि नास्तिकं नास्तिकग्रन्थ इत्यर्थः ॥ ५५ ॥
В которой логика считается лучшим доказательством, а происхождение всего считается самобытным(स्वभावसिद्ध), а Бог не считается творцом мира, это опровергает Веды, это называется атеистической философией (नास्तिक).