श्रुतिस्मृत्यविरोधेन राजवृत्तादिशासनम् ।
सुयुक्त्यार्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ॥ ५६ ॥
अन्वयः—यत्र श्रुतिस्मृत्यविरोधेन राजवृत्तादिशासनं सुयुक्त्यार्थार्जनं, तद् अर्थशास्त्रम् उच्यते ॥ ५६ ॥
व्याख्या—यत्र = यस्मिन् शास्त्रे, श्रुतिस्मृत्यविरोधेन — श्रुतीनाम् = वेदानाम्, स्मृतीनाम् = मन्वादिस्मृतीनाम्, अविरोधेन = अविरुद्धेन, राजवृत्तादिशासनम् = राज्ञः = नृपस्य, वृत्तादीनाम् = आचारादीनाम्, शासनम् = उपदेशः, तथा सुयुक्त्या = सुचातुर्येण, अर्थार्जनम् — अर्थानाम् = धनानाम्, अर्जनम् = उपार्जनम्, कथितम्, तत् हि अर्थशास्त्रम्, उच्यते = प्रचक्षते ॥ ५६ ॥
हिन्दी — जिसमें वेद और स्मृतिसम्मत राजाओं के लिए आचरण के विषय में उपदेश दिया गया हो तथा चतुराई से धनार्जन करने की विधि बतलाई गई हो, उसे अर्थशास्त्र कहते हैं ॥ ५६ ॥
श्रुतीति । यत्र श्रुतीनां स्मृतीनाञ्च अविरोधेन राज्ञः वृत्तादीनाम् आचरितादीनां शासनम् उपदेशः तथा सुयुक्त्या सुकौशलेन अर्थानां धनानाम् अर्जनम् उपार्जनं वर्णितमिति शेषः, तत् अर्थशास्त्रम् उच्यते ॥ ५६ ॥
В которой знание Вед и Смрити объясняются для праведного правления царей и объясняется разумный способ зарабатывания денег, это называется Артхашастра.