शशादिभेदतः पुंसामनुकूलादिभेदतः ।
पद्मिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः ।
तत् कामशास्त्रं सत्त्वादेर्लक्ष्म यत्रास्ति चोभयोः ।। ५७ ।।
अन्वयः — पुंसां शशादिभेदतः तथा अनुकूलादिभेदतः स्त्रीणां पद्मिन्यादिप्रभेदेन तथा स्वीयादिभेदतः यत्र उभयोः सत्त्वादेः लक्ष्म तत् कामशास्त्रम् ॥५७॥
व्याख्या—यत्र = यस्मिन् शास्त्रे, पुंसाम् = नराणाम्, शशादिभेदतः शशकमृगाश्वगज- जातिभेदात्, तथा = तेनैव प्रकारेण, अनुकूलादिभेदतः = अनुकूलशठधृष्टादिभेदात्, तथा स्त्रीणाम् = नारीणाम्, पद्मिन्यादिभेदतः = पद्मिनीशङ्खिनीचित्रिणिहस्तिन्यादिजातिभेदात्, तथा स्वीयादिभेदतः= स्वकीयापरकीयादिप्रभेदात्, उभयोः = स्त्रीपुरुषयोः, सत्त्वादेः सात्त्विकभावादेः, लक्ष्म = लक्षणम्, यत्रास्ति, तत् = असौ, कामशास्त्रं, प्रचक्षते ॥ ५७ ॥
हिन्दी — जिस शास्त्र में पुरुषों के शश, मृग, अश्व और हस्ती रूप जातिगत भेद से; अनुकूल, शठ एवं धृष्ट नायक के भेद से; स्त्रियों के पद्मिनी, चित्रिणी शङ्खिनी तथा हस्तिनी रूप जातिगत भेद से; स्वीया, परकीया एवं सामान्या आदि नायिका-भेद से तथा दोनों स्त्री- पुरुषों के अनुरागादि भेद के लक्षण का विशेष रूप से वर्णन हो, उसे कामशास्त्र कहा जाता है ॥ ५७ ॥
शशादीति । यत्रेत्यध्याहार्य्यम् । यत्र पुंसां शशादिभेदतः शशकमृगाश्वहस्तिजातिभेदात् तथा अनुकूलादिभेदतः अनुकूलधृष्टशठादिविशेषात् किञ्च स्त्रीणां पद्मिन्यादिभेदेन पद्मिनी- शङ्खिनीचित्रिणीहस्तिनीरूपजातिभेदेन तथा स्वीयादिभेदतः स्वीयापरकीयासाधारणीरूपविशेषेण उभयोः स्त्रीपुंसयोः सत्त्वादेः अनुरागादेः लक्ष्म लक्षणम् अस्ति, तत् कामशास्त्रम् ॥ ५७ ॥
Та шастра , в которой даются различия между зайцев, оленей, лошадей и слонов ; благородных и коррумпированных лидеров; Падмини, Читрини, Шанкхини и Хастини форм женщин; между такими героинями, как Свия, Паракия и Саммана, и даются особенности взаимоотношений между мужчинами и женщинами , называется Камашастра (Шастра желаний).