कल्पितश्रुतिमूलो वामूलो लोकैर्धृतः सदा ।
देशादिधर्म्मः स ज्ञेयो देशे देशे कुले कुले ॥ ६४ ॥
अन्वयः — यः देशे देशे कुले कुले लोकैः कल्पिता श्रुतिमूलः वा अमूलः सदा धृतः सः देशादिधर्मः ज्ञेयः ॥ ६४॥
व्याख्या—यः= धर्मः, देशे देशे = प्रतिदेशम्, कुले कुले = प्रतिकुलम्, लोकैः= जनैः, कल्पिता = स्थापिता, श्रुतिमूलः — श्रुतिः = वेदः, मूलम् = बीजम्, यस्य तथाभूतः, वा = अथवा, अमूलः= मूलरहितः, आचारः, सदा सर्वदा, धृतः = स्वीकृतः, सः = असौ, देशादिधर्म:- देशविशेषस्य धर्मः, ज्ञेयः = विज्ञेयः ॥ ६४ ॥
हिन्दी —– हर देश तथा हर कुल में जो लोगों के द्वारा विचारित वैदिक या अवैदिक आचार हमेशा मान्य रहा हो, उसे देशादिधर्म कहते हैं ॥ ६४ ॥
कल्पितेति। यः देशे देशे प्रतिदेशं कुले कुले प्रतिकुलं लोकैः कल्पिता रचिता श्रुतिः मूलं यस्य तथाभूतः वा अमूल: मूलरहितः आचार इति शेषः, सदा धृतः, सः देशादिधर्मः विज्ञेयः॥६४॥
В каждой стране и в каждом роде ведический (уходящий корнями в Веды) или неведический (не имеющий корней) образ действия наблюдаемый за людьми и вошедший в привычку (в итоге) — это называется Дешаадидхарма (можно перевести, как «местные устои»).