Шукра нити 67

अन्वयः—हावभावादिभिः संयुक्तं नर्तनं कला स्मृता । अनेकवाद्यकरणे ज्ञानं तत् वादने
कला ॥ ६७ ॥

व्याख्या–हावभावादिभिः = पुरुषमनोहारीस्त्रीचेष्टाभेदादिभिः, संयुक्तम् = समन्वितम्, नर्त्तनम् = नृत्यम्, कला = शिल्पविद्या, स्मृता = कथिता । अनेकेषाम् = विविधानाम्, वाद्यानाम्= वादित्राणाम्, करणे = सम्पादने, ज्ञानम् = बोधः, तेषां कला = शिल्पविद्या, स्मृतेति भावः॥ ६७ ॥

हिन्दी — विलास — विभ्रम के साथ नाचने की कला को नृत्यकला कहते हैं। अनेक तरह के बाजे बजाने के ज्ञान को वाद्य अथवा वादन कला कहते हैं ॥ ६७ ॥

हावेति । हावभावादिभिः संयुक्तं नर्त्तनं नृत्यं कला स्मृता । तथा अनेकेषां वाद्यानां करणे निर्माणे, तेषां वाद्यानां वादने च ज्ञानं कला स्मृतेति शेषः ॥ ६७ ॥

Искусство танца с экспрессией называется танцем. Умение играть на различных инструментах называется Вадья или Вадан(от глагола वदति — говорить).

Шукра нити 67
Пролистать наверх