Шукра нити 69

अन्वयः— शय्यास्तरणसंयोगपुष्पादिग्रथनं कला स्मृता । तथा द्यूताद्यनेकक्रीडाभिः रञ्जनं कला स्मृता ॥ ६९ ॥

व्याख्या— शय्यानाम् = पर्यङ्कानाम्, आस्तरणानाम् = कुथानाम्, संयोगः = सम्यक्सम्पादनम्,
पुष्पादीनाम् = प्रसूनादीनाम्, ग्रथनम् = सङ्ग्रन्थनम्, कला = शिल्पविद्या, स्मृता = कथिता । तथा—द्यूतादिभिः= कैतवादिभिः, अनेकाभिः = विविधाभिः, क्रीडाभिः = खेलनैः, रञ्जनम् = लोकानां मनोरञ्जनम्, कला स्मृता ॥ ६९ ॥

हिन्दी—पलंग पर बिछावन बिछाकर पुरुषों को सुलाने की विधि को भी कला कहते हैं। जुआ प्रभृति अनेक खेलों द्वारा मनोरंजन करना भी कला है ॥६९ ॥

शय्येति । शय्यानाम् आस्तरणानाञ्च संयोगः सम्यक् योगः अनुष्ठानं पुष्पादीनाञ्च प्रथनं कला स्मृता । तथा द्यूतादिभिः अनेकाभिः क्रीडाभिः रञ्जनं लोकानामिति शेषः कला स्मृता ॥ ६९ ॥

Подготовка спального ложа с украшением цвета (для убаюкивания мужчин) — одни из искусств. Развлекаться с помощью различных игр — это тоже искусство.

Шукра нити 69
Пролистать наверх