मकरन्दासवादीनां मद्यादीनां कृतिः कला ।
शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे कला ।। ७१ ।।
अन्वयः—मकरन्दासवादीनां मद्यादीनां कृतिः कला । शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे
कला ॥ ७१ ॥व्याख्या—मकरन्दः= प्रसूनरसः, तेन आसवादीनाम् = मदिरादीनाम्, मद्यादीनाम् = सुराप्रभृतीनाम्, कृतिः= निष्पादनम्, कला भवति । तथा शक्यस्य = कण्टकविद्धस्य, गूढम् = क्लेशरहितं मन्दम्, यथा तथा आहृतौ = निष्कासने, शिरासु व्रणानाम् = स्फोटकादीनाम्, व्यधे: विद्धकरणे च, ज्ञानम् = बोधः, कला भवति ॥ ७१ ॥
हिन्दी — फूलों के रस से आसव तथा सुरा प्रभृति बनाने की विधि को कला कहते हैं । शरीर में चुभे काँटें आसानी से निकालने की क्रिया तथा सिर के घावों को चीरकर बहाने की क्रिया को भी कला कहते हैं ॥ ७१॥
मकरन्देति । मकरन्दः पुष्परसः तेन आसवादीनां मादकद्रव्याणां तथा मद्यादीनां सुराप्रभृतीनां कृतिः अनुष्ठानं कला । तथा शल्यस्य पादादिविद्धस्य गूढं मन्दम् अक्लेशकरमित्यर्थः, यथा तथा आहृतौ बहिष्करणे शिरासु व्रणानां स्फोटकादीनां व्यधे विद्धकरणे च ज्ञानं कला ॥ ७१ ॥
Процесс изготовления Асавы и Суры (божественный нектар) из цветочного сока называется искусством. Процесс легкого удаления колючих шипов с тела и процесс излечивания открытых ран на голове также называют искусством.