धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता ।
धातुसाङ्कर्य्यपार्थक्यकरणन्तु कला स्मृता ॥ ७४ ॥
अन्वयः—धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाङ्कर्यपार्थक्यकरणं तु कला स्मृता ॥ ७४ ॥
व्याख्या—धातूनाम् = खनिजानाम्, औषधीनाम् = भैषज्यानाम्, संयोगस्य = सम्मिश्रणस्य, क्रियायाः= निष्पादनस्य, च, ज्ञानम् = बोधः, कला स्मृता । तथा धातूनाम् = अश्मभेदानाम्, साङ्कर्यात् = सम्मिश्रणात्, पार्थक्यकरणम् = भिन्नकरणम्, कला, स्मृता = कथिता ॥ ७४ ॥
हिन्दी — खनिजों के साथ औषधियों के सम्मिश्रण एवं प्रयोग करने के ज्ञान को भी कला कहते हैं। स्वर्णादि धातुओं के संमिश्रण को अलग-अलग करने की क्रिया को भी कला कहते हैं ॥ ७४ ॥
धात्विति। धातूनां स्वर्णरजतादीनाम् औषधीनाञ्च संयोगस्य क्रियायाः अनुष्ठानस्य च ज्ञानं कला स्मृता। तथा धातूनां साङ्कर्य्यात् मिश्रणात् पार्थक्यकरणं पृथक्करणं कला स्मृता ॥७४॥
Умение смешивать и использовать лекарства с минералами также называют искусством. Процесс разделения смеси (золота и других) металлов также называют искусством.