Шукра нити 75

अन्वयः—धात्वादीनां संयोगापूर्वविज्ञानं कला स्मृता । क्षारनिष्कासनं ज्ञानं कलासंज्ञं तु तत् स्मृतम्। एतत् हि कलादशकम् आयुर्वेदागमेषु च ॥ ७५ ॥

व्याख्या—धात्वादीनाम् = खनिजप्रभृतीनाम्, संयोगस्य = सम्मिश्रणस्य, अपूर्वम् = अभूत- पूर्वम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा क्षाराणाम् = लवणादीनाम्, निष्कासने = प्रकाशने, वा द्रव्यान्तराद् बहिष्करणे, यत्ज्ञानम् = कौशलम्, तदपि कलेति नाम्ना ख्याता । एतत् = पूर्वोक्तम्, दशकम् = दशसंख्यकम्, आयुर्वेदागमे = आयुर्वेदशास्त्रे वर्णितम्।

हिन्दी – खनिज द्रव्यों को अभूतपूर्व ढंग से मिलाने के ज्ञान को भी कला कहते हैं । नमक निकालने की प्रक्रिया को भी कला कहते हैं। ऊपर वर्णित दस कलाओं का उल्लेख आयुर्वेदशास्त्र में हैं॥७५ ॥

संयोगेति। धात्वादीनां धातुप्रभृतीनां संयोगस्य मिश्रीभावस्य अपूर्वं प्रथमं विज्ञानं कला स्मृता। तथा क्षाराणां लवणादीनां निष्कासने आविष्करणे वा द्रव्यान्तराद् बहिष्करणे यत् ज्ञानं तत् कलासंज्ञं कलेति नाम्ना स्मृतम्। एतत् कलानां दशकम् आयुर्वेदशास्त्रे अन्तर्भूतमिति शेषः, हिशब्दोऽवधारणार्थः ॥ ७५ ॥

Умение смешивать минералы высококачественным способом также называют искусством. Процесс добычи соли также называют искусством. Десять упомянутых выше искусств упоминаются в Аюрведа Шастре.

Шукра нити 75
Пролистать наверх