बाहुयुद्धन्तु मल्लानामशस्त्रं मुष्टिभिः स्मृतम् ।
मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ॥ ७७ ॥
अन्वयः–मल्लानाम् अशस्त्रं यत् बाहुयुद्धं तत् मुष्टिभिः स्मृतम् । तस्य मृतस्य स्वर्गः तथा
यशश्च इह न विद्यते ॥ ७७ ॥व्याख्या–मल्लानाम् = बाहुयोद्धृणाम्, अशस्त्रम् = आयुधरहितम्, यत् बाहुयुद्धम् मल्लयुद्धम्, तत = तस्मिन् युद्धे, मुष्टिभिः = मुष्टिप्रहारैः, स्मृतम् = कथितम् । तत्र = तस्मिन् युद्धे, मृतस्य = हतस्य, तस्य = वीरस्य, स्वर्गः = अपरलोकः, यशश्च = कीर्त्तिश्चापि, इह = संसारे, न = नहि, विद्यते = भवतीति ॥ ७७ ॥
हिन्दी—बिना हथियार चलाये मुक्के से जहाँ युद्ध होता है, उसे मल्लयुद्ध कहते हैं। इस युद्ध में मरने वालों को न तो स्वर्ग मिलता है और न संसार में यश ही मिलता है ॥ ७७ ॥
बाहुयुद्धमिति। मल्लानां वीराणाम् अशस्त्रं शस्त्राघातरहितं यत् बाहुयुद्धं तत् मुष्टिभिः मुष्टिप्रहारैः स्मृतं कथितं, तत्र मृतस्य तस्य वीरस्य स्वर्गः तथा यशश्च इह न विद्यते ॥ ७७ ॥
Там, где идет борьба на кулаках без применения оружия, это называется кулачный бой (मल्लयुद्ध). Те, кто погибнет в этой войне, не получат ни рая, ни славы в мире.