कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः ।
सन्निपातावघातैश्च प्रमादोन्मथनैस्तथा ।
कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥ ७९॥
कलाभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम् ।
वाद्यसङ्केततो व्यूहरचनादि कला स्मृता ॥ ८० ॥
अन्वयः—कृतप्रतिकृतैः चित्रैः सुसङ्कटै: बाहुभिः सन्निपातावघातैश्च तथा प्रमादोन्मथनैः यत्कृतं तन्निपीडनं ज्ञेयम्। तन्मुक्तिस्तु प्रतिक्रिया सा कला। अभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनं तथा वाद्यसङ्केततः व्यूहरचनादि कला स्मृता ॥ ७९-८० ॥
व्याख्या—कृतैः = बाहुभ्यां प्रहरणैः, प्रतिकृतैः = शत्रुकृतप्रहारावरोधनैः, चित्रैश्च = विविधैश्च, सुसङ्कटैः =- अतिभीषणप्रहरणैः, बाहुभिः = बाहुप्रहारैः सन्निपातैः = शत्रोरुपरि सम्यक्पातनैः, अवघातैः= प्रहारै:, तथा प्रमादे = स्तोकमपि सावधानताऽभावे, उन्मथनैः= पेषणैः,यत्कृतम् = यदनुष्ठितम्, तत् = कर्म, निपीडनम् = सन्तापनं वा अर्दनम्, ज्ञेयम् = बोध्यम् । तत् = तस्मात्, मुक्तिस्तु = अतिक्रमस्तु, प्रतिक्रिया = प्रतिकारः, सा = एवंविधा क्रिया, कला देशे = स्थानविशेषे, यन्त्रादीनाम् = ज्ञेया । किञ्च अभिलक्षिते = अभीप्सिते, प्रहारकयुद्धयन्त्रादीनाम्, तथा अस्त्राणाम् = प्रहरणानाम्, निपातनम् = प्रहरणम्, तथा वाद्यानाम् = : सङ्केतेन, व्यूहरचनादि = सैन्यसंरचनादि, कला, स्मृता= वादनयन्त्राणाम्, सङ्केततः सङ्केतेन,कथिता ॥ ७९-८० ॥
हिन्दी—बाँहों से वार करना, अपने पर किये गये वारों से बचना, पैंतरे बदल कर बाँहों से वार करना, बाँहों से भीषण प्रहार करना, शत्रु पर लगातार टूट पड़ना, हाथों से ही उसे चोट पहुँचाना तथा थोड़ा भी असावधान होने पर दुश्मन को हाथों से मसल डालना – ऐसे बाहुयुद्ध को ‘निपीड़न’ कहा जाता है । ऐसे आक्रमणों से अपने को बचा लेना ‘प्रतिक्रिया’ कहलाती है। इसे मल्लयुद्ध कहते हैं, यह भी एक कला है । लक्ष्यस्थान पर निशाना साधकर युद्धयंत्र सैन्य-संरचना या हथियार चलाना भी एक कला है । जुझाऊ बाजे के इशारे पर सैन्य संरचना भी एक कला है ।। ७९-८० ।।
कृतेति। कलेति। कृतैः प्रतिकृतैः चित्रैः विविधैः सुसङ्कटैः अतिभीषणैः बाहुभिः बाहुप्रहारैरित्यर्थः, सन्निपातैः सम्यक् पातनैः शत्रोरुपरीति शेषः, अवघातैः आघातैः तथा प्रमादे अनवधानतायां शत्रोरिति शेषः, उन्मथनैः मर्दनैः यत् कृतं तत् निपीडनं निःशेषेण पीडनं ज्ञेयं, तस्मात् मुक्तिस्तु अतिक्रमस्तु प्रतिक्रिया प्रतिकारः सा कला । किञ्च अभिलक्षिते लक्ष्यीकृते देशे यन्त्रादीनां युद्धयन्त्रादीनाम् अस्त्राणाञ्च निपातनं तथा वाद्यानां सङ्केततः इङ्गितेन व्यूहरचनादि सैन्यरचनादि कला स्मृता ॥ ७९-८० ॥
Атаковать оружием, уклоняться от атак на себя, атаковать оружием сменой маневров, яростно бить оружием, беспрерывно обрушиваться на врага, ранить его руками и, если он немного неосторожен, сокрушить врага руками — Такой бой называется «сдавливание» (निपीडनम् -निपीड़न). Защита от таких нападок называется «реакцией» (प्रतिक्रिया). Это называется борьбой (मल्लयुद्ध), это тоже искусство. Также искусство — управление боевой машиной, военным сооружением или оружием путем наведения на цель. Военное построение армии в соответствии с указаниями (командами и жестами) также является искусством .