Шукра нити 82

अन्वयः—विविधासनमुद्राभिः देवतातोषणं कला । सारथ्यं गजाश्वादेः च गतिशिक्षा कला स्मृता ॥ ८२ ॥ व्याख्या—विविधेन = अनेकप्रकारकेण, आसनेन = उपवेशनाधारेण, मुद्राभिः = शरीरा- वयवविन्यासैः, देवतानाम् = सुराणाम्, तोषणम् = प्रीणनम्, कला । तथा सारथ्यम् = रथसञ्चालनम्, “गजानाम् = करिणाम्, अश्वानाञ्च = हयानाञ्च, गतिशिक्षा = सञ्चालनबोधः, च, कला स्मृता = कथिता ॥ ८२ ॥

हिन्दी – अनेक प्रकार के आसनों और मुद्राओं से देवताओं को प्रसन्न करना भी एक कला है तथा रथ हाँकना और हाथी-घोड़े को चाल सिखाना भी कला है ॥ ८२ ॥

विविधेति । विविधेन आसनेन उपवेशनेन मुद्राभिः हस्तादीनां रचनाविशेषैश्च देवतानां सन्तोषणं प्रीणनं कला । तथा सारथ्यं सूतकार्य्यं गजानाम् अश्वानाञ्च गतिशिक्षा च कला स्मृता ॥ ८२ ॥

Угождать Богам различными видами асан и жестов – это тоже искусство, управлять колесницей и обучать трюкам слонов и лошадей – тоже искусство.

Шукра нити 82
Пролистать наверх