नौकारथादियानानां कृतिज्ञानं कला स्मृता ।
सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥ ८६ ॥
अन्वयः–नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानं तु कला स्मृता ॥ ८६ ॥
व्याख्या–नौकानाम् = तरणीनाम्, रथानाम् = स्यन्दनानाम्, यानादीनाम् = शकटादीनाम्, | कृतौ = रचनायाम्, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा सूत्रादीनाम् = तन्त्वादीनाम्,रज्जूनाञ्च = दाम्नाञ्च, करणे = निर्माणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता ॥ ८६ ॥
हिन्दी — नाव, रथ और सवारी गाड़ी बनाने के ज्ञान को भी कला कहते हैं तथा धागे या वस्तुओं से रस्सी बनाने के ज्ञान को भी कला कहते हैं ॥ ८६ ॥
नौकति। नौकानां रथानां यानादीनां शकटादीनाञ्च कृतौ निर्माणे ज्ञानं कला स्मृता । तथा सूत्रादीनां रज्जूनाञ्च करणे विज्ञानं विशेषेण ज्ञानं कला स्मृता ॥ ८६ ॥
Искусство изготовления лодок, колесниц и повозок также называется искусством, также умение делать веревки из нитей и других схожих предметов также называется искусством.