Шукра нити 87

अन्वयः—अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । रत्नानाञ्च वेधादिसदसज्ज्ञानं कला स्मृता ॥ ८७ ॥

व्याख्या— अनेकेषाम् = विविधानाम्, तन्तूनाम् = सूत्राणाम्, संयोगैः = सम्मिश्रणैः, पटबन्धः —पटानाम् = वस्त्राणाम्, बन्धः = वयनमपि, कला, स्मृता = ख्यातेति । रत्नानाम् = मणीनाम्, वेधादिषु = छिद्रादिषु, सदसज्ज्ञानम् = उत्कृष्टापकृष्टत्वबोधः, कला, स्मृता = कथिता ॥ ८७ ॥

हिन्दी — अनेक रंग के धागों को मिलाकर कपड़ा बुनना भी एक कला है । रत्नों में छेद करना तथा उसके अच्छे और बुरे की जानकारी भी कला ही है ॥ ८७ ॥

अनेकेति। अनेकेषां तन्तूनां सूत्राणां संयोगैः पटबन्धः वस्त्रवयनं कला स्मृता । तथा रत्नानां वेधादिषु छिद्रादिषु सदसज्ज्ञानम् उत्कर्षापकर्षज्ञानं कला स्मृता ॥ ८७ ॥

Ткачество ткани путем смешивания нитей многих цветов также является искусством. Обработка драгоценных камней и знание их достоинств и недостатков, — это тоже искусство.

Шукра нити 87
Пролистать наверх