Шукра нити 88

अन्वयः—स्वर्णादीनां याथात्म्यविज्ञानं कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला
स्मृता ॥ ८८ ॥
व्याख्या— स्वर्णादीनाम् = कनकप्रभृतीनाम्, याथात्म्यस्य = = यथार्थस्वरूपस्य, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा कृत्रिमाणाम् = अनैसर्गिकानाम्, स्वर्णरत्नादीनाम् = सुवर्णमाणिक्यादीनाम्, क्रियाज्ञानम् = रचनाकौशलम्, कला, स्मृता = कथिता ॥ ८८ ॥
हिन्दी — सुवर्णादि धातुओं की परख भी कला है। नकली सोना और रत्न भी बनाना एक कला है ॥ ८८ ॥
स्वर्णादीनामिति । स्वर्णादीनां याथात्म्यस्य यथास्वरूपस्य विज्ञानं विशेषेण ज्ञानं कला स्मृता । तथा कृत्रिमाणां स्वर्णरत्नादीनां क्रियाज्ञानं करणविज्ञानं कला स्मृता ॥ ८८ ॥

Анализ золота и других металлов — это тоже искусство. Изготовление поддельного золота и драгоценных камней — это тоже искусство

Шукра нити 88
Пролистать наверх