पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता ।
दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता॥९०॥
अन्वयः— पशुचर्मणाम् अङ्गेभ्यः निर्हारस्य क्रियायां ज्ञानं कला । दुग्धदोहादीनां घृतान्तं विज्ञानं कला स्मृता ॥ ९० ॥
व्याख्या— पशुचर्मणाम् = अजिनानाम् अङ्गेभ्यः = पशुशरीरावयवेभ्यः, निर्हारस्य = निष्कासनस्य, क्रियायाम् = कृतौ, ज्ञानम् = बोधः, कला, स्मृता = कथिता । दुग्धदोहादीनाम् = गवादिदुग्धदोहनादीनाम्, घृतान्तम् = दुग्धात् घृतनिष्कासनपर्यन्तम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथितेति ॥ ९० ॥हिन्दी—पशु की देह से चमड़ी उतारने की रीति को भी कला कहते हैं। दूध दुहने से घी निकालने तक की क्रिया भी एक कला ही है ॥ ९० ॥
पश्विति। पशुचर्मणाम् अङ्गेभ्यः पशूनामिति भावः, निर्हारस्य निष्कासनस्य क्रियायां ज्ञानं कला स्मृता । दुग्धदोहादीनां पशुदोहनादीनां घृतान्तं घृतसम्पादनपर्य्यन्तं विज्ञानं कला स्मृता ॥९० ॥
Практика снятия шкуры с тела животного также называется искусством. Процесс от доения до извлечения топленого масла также является искусством.