Шукра нити 92

अन्वयः—गृहभाण्डादेः मार्जने विज्ञानं तु कला स्मृता । वस्त्रसम्मार्जनं क्षुरकर्म च उभे हि कले ॥९२॥
भाण्डादेः= प्रयुक्तपात्रादेः,
व्याख्या– गृहाणाम् = सदनानाम्, मार्जने = परिष्करणे, यद्विज्ञानम् = विशिष्टज्ञानम् तु, कला, स्मृता = कथिता । वस्त्रसम्मार्जनम् = वसनादिप्रक्षालनम्, तथा, क्षुरकर्म = केशकर्तनादिकम् च एते, उभे = द्वे, हीति निश्चयेन, कलेति बोध्यम् ॥ ९२ ॥

हिन्दी — धातु-निर्मित घरेलू बरतन बासन की सफाई कला है । वस्त्रों की सफाई और बाल बनाने की क्रिया- ये दोनों कला हैं ॥९२॥

मार्जने इति। गृहभाण्डादेः गृहतैजसपात्रादेः मार्जने शोधने विज्ञानं कला स्मृता । वस्त्राणां सम्मार्जनं सम्यक् शोधनं तथा क्षुरकर्म्म एते उभे कले ॥९२॥

Чистка металлической посуды – это искусство. Чистка одежды и процесс укладки волос — это искусство.

Шукра нити 92
Пролистать наверх