काचपात्रादिकरणविज्ञानन्तु कला स्मृता ।
संसेचनं संहरणं जलानां तु कला स्मृता ।। ९५ ।।
अन्वयः—काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं संहरणं कला स्मृता ॥ ९५ ॥
व्याख्या—काचपात्रादीनां = स्फटिक भाजनादीनां करणे = निर्माणे, विज्ञानम् = विशिष्ट- ज्ञानम्, कला स्मृता = कथिता । तथा जलानाम् = सलिलानाम्, संसेचनम् = सम्यगभ्युक्षणम्, संहरणम् = सङ्कोचनम्, ‘कला’ स्मृता = कथिता ॥ ९५ ॥
हिन्दी—सीसे के बरतन बनाने की क्रिया भी कला है। पानी से सिंचाई करना, उसे रोकना या निकालना भी कला ही है ॥ ९५ ॥
काचेति। काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं सम्यक् सेचनं संहरणञ्च कला स्मृता ॥ ९५ ॥
Процесс изготовления стеклянной посуды также является искусством. Поливание, остановка и устранение воды — тоже искусство.