Шукра нити 96

अन्वयः—लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ ९६ ॥
व्याख्या—लोहाः= अयस्काः, अभिसाराः = उपादानानि येषां तादृशानाम्, शस्त्राणाम् = आयुधानाम्, अस्त्राणाम् = प्रहरणानाम्, कृतौ = करणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा गजानाम् = हस्तिनाम्, अश्वानाम् = हयानाम्, वृषभानाम् = बलीवर्दाणाम्, उष्ट्राणाम् = दीर्घ- वक्रग्रीवानाम्, पल्याणादीनाम् = पृष्ठास्तरणविशेषाणाम्, क्रिया = कृतिः, च कलेति ॥९६ ॥
हिन्दी—लोहे के हथियार बनाने की क्रिया भी कला है। हाथी, घोड़े, बैल और ऊँटों के पीठ पर रखने की गद्दी बनाना भी कला ही है ॥ ९६ ॥
लोहेति। लोहाः अभिसाराः उपादानानि येषां तादृशानां शस्त्राणाम् अस्त्राणाञ्च कृतौ ज्ञानं कला स्मृता। तथा गजानाम् अश्वानां वृषभाणाम् उष्ट्राणाञ्च पल्याणादीनां पृष्ठास्तरणविशेषाणां क्रिया अनुष्ठानं कला ॥ ९६ ॥

Процесс изготовления железного оружия также является искусством. Изготовление сёдел для спины слонов, лошадей, волов и верблюдов — тоже искусство.

Шукра нити 96
Пролистать наверх