शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।
सुयुक्तताडनज्ञानमपराधिजने कला ।। ९७ ।।
अन्वयः–शिशोः संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तताडनज्ञानं कला ॥ ९७ ॥
व्याख्या—शिशोः– बालकस्य, संरक्षणे = रक्षाकरणे, क्रीडने = खेलने च, यत् ज्ञानम्= बोधः, सोऽपि कला, तथा अपराधिजने = दोषीजने, सुयुक्तम् = यथोपयुक्तम्, ताडनम् = हननं, तस्योचितं ज्ञानम् = बोधः, अपि कला भवति ॥ ९७ ॥
हिन्दी—बच्चों का पालन, गोद लेना या खेलाना भी एक कला है। अपराधियों की सही ढंग से पीटाई की जानकारी भी कला है ॥ ९७ ॥
शिशोरिति । शिशोः बालकस्य संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तं यथोपयुक्तं यत् ताडनं दण्डनं तस्य ज्ञानं कला ॥ ९७ ॥
Воспитание, защита и игра с детьми — это тоже искусство.
Умение правильно наказывать преступников — это тоже искусство.