Перевод Шукра нити 1.13

विद्या शौर्य्यञ्च दाक्ष्यञ्च बलं धैर्य्यञ्च पञ्चमम् ।
मित्राणि सहजान्याहुर्वर्त्तयन्ति हि तैर्बुधाः ॥ १३ ॥

अन्वयः — विद्या शौर्यं दाक्ष्यं बलं तथा पञ्चमं धैर्यं सहजानि मित्राणि आहुः । हि बुधाः
तैः वर्तयन्ति ॥ १३ ॥

व्याख्या–विद्या = ज्ञानम्, शौर्यम् = पराक्रमः, दाक्ष्यम् = कौशलम्, बलम् = शक्तिम्, तथा पञ्चमम्, धैर्यम् = धीरत्वम्, मनःस्थैर्यमित्यर्थः, एतानि सहजानि = स्वाभाविकानि, मित्राणि = सुहृदः, आहुः = कथयन्ति । हि, बुधाः = पण्डिताः, तैः = पूर्वोक्तैः विद्यादिभिः, वर्त्तयन्ति : जीवन्ति ॥ १३ ॥

हिन्दी – विद्या, वीरता, चतुरता, शक्ति तथा धैर्य — ये पाँचों किसी भी व्यक्ति के सहज मित्र कहलाते हैं। बुद्धिमान् व्यक्ति इन्हीं के सहारे अपनी आजीविका का निर्वाह करते हैं ॥ १३ ॥

Знания, храбрость, сообразительность, сила и терпение – эти пять качеств называют естественными друзьями любого человека. Мудрые люди живут своей жизнью только с их помощью.

Источник: Шукра нити

Похожую шлоку можно найти в Махабхарате
विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चकम
मित्राणि सहजान्य आहुर वर्तयन्तीह यैर बुधाः (книга 12 глава 137 шлока 81)

Перевод Шукра нити 1.13

Добавить комментарий

Пролистать наверх