Перевод Шукра нити 24

विद्या ह्यनन्ताश्च कलाः संख्यातुं नैव शक्यते ।
विद्या मुख्याश्च द्वात्रिंशच्चतुःषष्टिः कलाः स्मृताः ।। २४ ।।

अन्वयः—विद्याः कलाश्च अनन्ताः हि, ताः संख्यातुं नैव शक्यते । मुख्याः विद्या: द्वात्रिंशत् कलाश्च चतुःषष्टिः स्मृताः ॥ २४ ॥

व्याख्या—विद्याः= बोधाः, कलाश्च = नृत्यगीतादिशिल्पविद्याः, अनन्ताः = अन्तहीनाः, हि = यतः, ताः= विद्याः कलाश्च, संख्यातुम् = गणनाकर्तुम्, नैव= नास्त्येव, शक्यते = अर्हति । ‘शक्यते’ इति आर्षप्रयोगः । तत्र मुख्याः = प्रमुखाः, विद्याः = ज्ञानानि, द्वात्रिंशत्, तथा कलाः= शिल्पविद्याः, चतुःषष्टिः, स्मृताः = कथिताः ॥ २४ ॥


हिन्दी—विद्या एवं कलाओं का कोई अन्त नहीं हैं, इनकी गिनती कोई नहीं कर सकता है। फिर भी बत्तीस मुख्य विद्याएँ एवं चौसठ कलाएँ मानी जाती हैं॥२४॥

विद्या इति । विद्या कलाश्च अनन्ता हि ताः संख्यातुम् इयत्तया परिच्छेत्तुं नैव शक्यते शक्यन्ते आर्षोऽयं प्रयोगः। तत्र मुख्याः विद्याः द्वात्रिंशत्, तथा कलाश्च चतुःषष्टिः स्मृताः ॥ २४ ॥

Нет конца знаниям и искусствам, никто не может их сосчитать. Тем не менее, тридцать две основные дисциплины и шестьдесят четыре искусства считаются. (точно определены и описаны в шастрах)

Перевод Шукра нити 24

Добавить комментарий Отменить ответ

Пролистать наверх
Exit mobile version