Перевод Шукра нити 25

यद् यत् स्याद् वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम् ।
शक्तो मूकोऽपि यत् कर्तुं कलासंज्ञन्तु तत् स्मृतम् ।। २५ ।।

अन्वयः—-यत् यत् कर्म सम्यक् वाचिकं तत्तत् विद्याभिसंज्ञकम् । यत् मूकोऽपि कर्तुं शक्तः तत्तु कलासंज्ञं स्मृतम् ॥ २५ ॥

व्याख्या—यत् यत् कर्म = यानि यानि कार्याणि, सम्यक् = सुष्ठुतया, वाचिकम् = वाचा पूर्णतया निष्पाद्यम्, तत्तत् = कर्म, विद्या = बोधः, अभिसंज्ञकः = नाम्नाख्यातम्, यत्तु, मूकोऽपि = वाणिहीनोऽपि, कर्त्तुम् = निष्पादितुम्, शक्तः = समर्थः, तत्तु, कला = नृत्यादिकं शिल्पविद्यानाम्ना, स्मृतम् = ख्यातम् ॥ २५ ॥

हिन्दी – जो-जो काम बोल कर ठीक ढंग से पूरा किया जा सकता है, वह विद्या है और जिन्हें गूंगा व्यक्ति भी हाथ-पैरों की सहायता से कर सकता है, वह कला कहलाती है ॥ २५ ॥

यदिति। यत् यत् कर्म सम्यक् सम्पूर्णरूपेण वाचिकं वाचा निष्पाद्यं, ततत्त् विद्याभिसंज्ञकं विद्येति नाम्ना कथितम् । यत्तु मूकोऽपि वर्णोच्चारणासमर्थोऽपि कर्तुं शक्तः ( यथा नृत्यादिकमिति भावः ), तत्तु कलासंज्ञं कलेति नाम्ना कथितम् ॥ २५ ॥

То, что можно правильно сделать, говоря( на основ слов), — это видья(практическое знание), а то, что даже немой человек может сделать с помощью рук и ног, называется искусством.

Перевод Шукра нити 25

Добавить комментарий

Пролистать наверх