Перевод Шукра нити 26

उक्तं सङ्क्षेपतो लक्ष्म विशिष्टं पृथगुच्यते ।
विद्यानाञ्च कलानाञ्च नामानि तु पृथक् पृथक् ।। २६ ।।

अन्वयः—विद्यानाञ्च कलानाञ्च लक्ष्म सङ्क्षेपतः उक्तम्, विशिष्टं तु पृथक् उच्यते; नामानि पृथक् पृथक् सन्ति ॥ २६ ॥

व्याख्या—विद्यानाम् = ज्ञानविज्ञानानाम्, कलानाञ्च = शिल्पविद्यानाञ्च, लक्ष्म = लक्षणम्, सङ्क्षेपतः= समासेन, उक्तम् = कथितम्, विशिष्टम् = विलक्षणम्, तु पृथक्= भिन्नम्, उच्यते = कथ्यते, नामानि = अभिधानानि, पृथक् पृथक् = भिन्नं भिन्नम्, सन्तीति ॥ २६ ॥

हिन्दी — विद्या और कला के सामान्य लक्षण संक्षेप में कह दिया, अब इनके विशिष्ट लक्षण अलग बतलाते हैं; इनके अलग-अलग नाम हैं ॥ २६ ॥

उक्तमिति। विद्यानाञ्च कलानाञ्च लक्ष्म लक्षणं सङ्क्षेपतः उक्तं विशिष्टन्तु पृथक् उच्यते कथ्यते, आसां नामानि पृथक् पृथक् सन्तीति शेषः ॥ २६ ॥

Общие характеристики учения(विद्या) и искусства (कला) были сказаны вкратце, теперь в отдельности (будет) говорится об их специфических характеристиках; у них разные названия

Перевод Шукра нити 26

Добавить комментарий

Пролистать наверх