Шукра нити 29-30

मीमांसातर्कसांख्यानि वेदान्तो योग एव च ।

इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम् ।। २९ ।।

अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलङ्कृतिः ।

काव्यानि देशभाषावसरोक्तिर्यावनं मतम् ।

देशादिधर्मा द्वात्रिंशदेता विद्याभिसंज्ञिताः ॥ ३० ॥

अन्वयः— मीमांसा तर्कः सांख्यं वेदान्तः योग: इतिहासाः पुराणानि स्मृतयः नास्तिकं मतम् अर्थशास्त्रं कामशास्त्रं शिल्पम् अलङ्कृतिः काव्यानि देशभाषा अवसरोक्तिः यावनं मतं देशादिधर्मा:- एता: द्वात्रिंशत् विद्याभिसंज्ञिताः ॥ २९-३० ॥

व्याख्या— मीमांसा = दर्शनशास्त्रविशेषः, तर्कः = न्यायशास्त्रम्, सांख्यम् = महर्षिकपिल- प्रणीतो दर्शनग्रन्थविशेषः, वेदान्तः = अध्यात्मविद्या ज्ञानकाण्डं वा, योगः = चित्तवृत्तिनिरोधात्मक- दर्शनशास्त्रविशेषः, इतिहासा : पूर्ववृत्तानि, पुराणानि = हिन्दूनामष्टादश आख्यानग्रन्थाः, ब्रह्म- विष्णु — शिवपुराणादिः स्मृतय: = मन्वाद्यार्य धर्मशास्त्राणि, नास्तिकं मतम् = अनीश्वरवादिनः सिद्धान्तः, अर्थशास्त्रम् = धनप्राप्तिरक्षावृद्ध्याद्युपायदर्शकं शास्त्रम्, कामशास्त्रम् = प्रेमविज्ञानम्, रतिशास्त्रं वा, शिल्पम् = हस्तव्यवसायशास्त्रम्, अलङ्कृतिः = अलङ्कारशास्त्रम्, काव्यानि = कविकृतयः, देशभाषा = राष्ट्रभाषा, अवसरोक्तिः = सूक्तिशास्त्रम्, यावनं मतम् = यूनानवासीनां धार्मिकसिद्धान्तः, देशादिधर्माः = वैदेशिकधर्मसिद्धान्ताः, एताः द्वात्रिंशत् = द्वयाधिकत्रिंशत्, विद्याभिसंज्ञिताः= विद्या इति नाम्ना विख्यातेति ॥ २९-३० ॥

हिन्दी—मीमांसा, न्याय, सांख्य, वेदान्त, योग, इतिहास, पुराण, स्मृति, नास्तिकमत, अर्थशास्त्र, कामशास्त्र, शिल्पशास्त्र, अलङ्कारशास्त्र, काव्य, राष्ट्रभाषा, सूक्तिशास्त्र, यवनों का मत तथा वैदेशिक धर्मग्रन्थ—ये बत्तीस विद्या नाम से जाने जाते हैं ॥ २९-३० ॥

मीमांसेति। अर्धेति। मीमांसा, तर्कः, साङ्ख्यं, वेदान्तः, योगः, इतिहासाः, पुराणानि, स्मृतय: नास्तिकमतम्, अर्थशास्त्रं, कामशास्त्रं, शिल्पम्, अलङ्कृतिः, काव्यानि, देशभाषा, अवसरोक्तिः, यावनं मतं तथा देशादिप्रचलितधर्माः एताः द्वात्रिंशत् विद्याभिसंज्ञिता विद्यानाम्ना ख्याता इत्यर्थः॥२९-३० ॥

Миманса(наука рассуждения), ньяя(логика), санкхья(наука о числах), веданта(основное знание Вед), йога, история, пураны, смрити, атеизм, артхашастра(наука о экономии и управлении), камашастра(наука о эмоциях и желаниях), шилпашастра(зодчество), аланкаршастра(наука о украшательстве), поэзия, национальный язык, суктишастра (наука о мерах), мнение молодежи и иностранные писания — все это известно под именами тридцати двух видий(наук) .

Шукра нити 29-30

Добавить комментарий Отменить ответ

Пролистать наверх
Exit mobile version