Перевод Шукра нити 33

ऋयूपा यत्र ये मन्त्राः पादशोऽर्द्धर्चशोऽपि वा ।
येषां हौत्रं स ऋग्भागः समाख्यानं च यत्र वा ॥ ३३ ॥

अन्वयः — यत्र ऋयूपाः -यत्र ऋग्रूपाः ये मन्त्राः पादशः अर्द्धर्चशः वा येषां होत्रं न, यत्र वा समाख्यानं, सः
ऋग्भागः ॥ ३३ ॥

व्याख्या—यत्र = यस्मिन्, ऋग्रूपा:= ऋचास्वरूपाः स्तुतिपरकाः, ये मन्त्राः= वेदानां संहिताभागः, पादशः= चतुर्थचरणेन, अर्द्धर्चशः = ऋचायाः अर्द्धांशेन, वा = अथवा, येषाम्, होत्रम् = हवननिष्पादकत्वम्, च = पुनः, यत्र = यस्मिन् स्थाने, समाख्यानम् = सम्यग्रूपेण आख्यानम् = कथनम्, सः = ऋग्भागः, ऋग्वेद इति नाम्ना प्रसिद्धः॥३३ ॥

हिन्दी—जिसमें ऋचास्वरूप स्तुतिपरक मन्त्र हों अथवा जो एक चरण या आधी ऋचा के रूप में पढ़ा जाता हों तथा जिन मंत्रों के द्वारा होम किया जाता हो या जिनमें अच्छी तरह आख्यान कहा गया हो, वह ऋग्वेद कहलाता है ॥ ३३ ॥

ऋगिति । यत्र ऋग्रूपाः ये मन्त्राः पादशः अर्द्धर्चशः वा पठिता इति शेषः, येषां मन्त्राणां होत्रं होमसम्पादकत्वं यत्र वा समाख्यानं सम्यक् अख्यानं कथनं, सः ऋग्भागः ऋग्वेदः॥३३॥

Там где есть гимны (ऋचा) в форме восхваляющих мантр или которые читаются в виде одного слога или полугимна и гимны, посредством которых исполняется хома(возжигание огня) или в которых хорошо рассказано повествование, называется Ригведой.

Перевод Шукра нити 33

Добавить комментарий

Пролистать наверх