Перевод Шукра нити 34

प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः ।
आध्वर्य्यवं यत्र कर्म्म त्रिगुणं यंत्र पाठनम् ।
मन्त्रब्राह्मणयोरेव यजुर्वेदः स उच्यते ॥ ३४ ॥

अन्वयः—यत्र मन्त्राः प्रश्लिष्टं पठिताः तथा वृत्तगीतिविवर्जिताः, यत्र च आध्वर्यवं कर्म, यत्र च मन्त्रब्राह्मणयोरेव त्रिगुणं पठितं, सः यजुर्वेदः उच्यते ॥ ३४ ॥

व्याख्या—यत्र = यस्मिन्, मन्त्राः = संहिताभागाः, प्रश्लिष्टम् = युक्तियुक्ताः, यथा तथा पठिताः= उद्घोषिताः, तथा = तेनैव प्रकारेण, वृत्तेन = छन्दसा, गीत्या = गायनेन, च = पुनः, विवर्जिताः= रहिताः, यत्र च आध्वर्यवम् = ऋत्विग्विहितं कर्म प्रोक्तम्, यत्र च मन्त्रब्राह्मणयोः- उभयोरेव, त्रिगुणम्= त्रिरावृत्तम्, पठितम् = उच्चारितम्, सः = असौ, यजुर्वेदः, इति नाम्ना, उच्यते = कथ्यते ॥ ३४ ॥

हिन्दी—जिसमें अलग-अलग मंत्र पढ़े जाते हों, ये मंत्र छन्द और गान से रहित हों, ऋत्विग् के कर्म विहित हों तथा जिसमें मंत्र और ब्राह्मण भाग का तीन आवृत्ति के साथ पाठ होता हो, उसे यजुर्वेद कहते हैं ॥३४॥

प्रश्लिष्टेति । यत्र मन्त्राः प्रश्लिष्टं यथा तथा पठिताः तथा वृत्तेन छन्दसा गीत्या च विवर्जिताः विरहिताः, यत्र च आध्वर्य्यवम् अध्वर्युविहितं कर्म्म प्रोक्तमिति शेषः, यत्र च मन्त्रब्राह्मणयोरुभयोरेव त्रिगुणं त्रिरावृत्तं पठितं सः यजुर्वेदः उच्यते ॥ ३४ ॥

Та, в которой читаются разные мантры, свободные от стихотворных размеров и пропивания, предписаны священные ритуалы и в которой мантры и часть брахман читаются тремя способами, эта (Веда) называется Яджурведа.

Перевод Шукра нити 34

Добавить комментарий Отменить ответ

Пролистать наверх
Exit mobile version