विविधोपास्यमन्त्राणां प्रयोगाः सुविभेदतः ।
कथिताः सोपसंहारास्तद्धर्मनियमैश्च षट् ।
अथर्वणां चोपवेदस्तन्त्ररूपः स एव हि ॥ ४० ॥
अन्वयः—यत्र विविधोपास्यमन्त्राणां सोपसंहाराः षट् प्रयोगाः धर्मनियमैः सह सुविभेदतः कथिताः, स एव अथर्वणाम् उपवेदः तन्त्रस्वरूपः एव हि ॥ ४० ॥
व्याख्या—यत्र, विविधानाम् = अनेकानाम्, उपास्यानाम् = आराध्यानाम्, मन्त्राणाम्= वेदवाक्यानाम्, सोपसंहाराः — उपसंहारेण = पर्यवसानेन सहिताः षट् प्रयोगाः = षट् तान्त्रिकोपचाराः, तेषां धर्मनियमैः सह = धर्मनियोगैः सह, सुविभेदतः = सुष्ठुतया भेदप्रभेदानुसारेण, कथिताः, स एव = तदेव, अथर्वणामुपवेदः = गौणवेदः, तन्त्ररूपः = तन्त्रस्वरूपः एव, हि इत्यवधारणे ॥४० ॥
हिन्दी—जिसमें अनेक प्रकार के उपास्य देवों के मंत्रों के प्रयोग तथा मारण, मोहन, उच्चाटन, विद्वेषण, आकर्षण और स्तम्भन — इन छः प्रयोगों के भेद, प्रयोग तथा उपसंहार धर्म तथा नियम के साथ वर्णित हों, उसे अथर्ववेद का उपवेद तंत्र या आगम कहते हैं ॥ ४० ॥
विविधेति। यत्र विविधानाम् उपास्यानां मन्त्राणां सोपसंहाराः उपसंहारसहिताः षट् प्रयोगाः तेषां धर्म्मनियमैश्च सह सुविभेदतः विशिष्टप्रभेदानुसारेण कथिताः सः अथर्वणाम् उपवेदः तन्त्ररूपः हि तन्त्रस्वरूप एव ॥ ४० ॥
В которой разными способами описывается использование мантр для разных типов божеств, а также методы уничтожения(मारण), обольщения (मोहन), разрушения (उच्चाटन), ненависти (विद्वेषण), привлечения (आकर्षण) и закрепления (स्तम्भन) . Различия использования этих шести , само использование и результаты (उपसंहार धर्म) описанные с правилами — это называется Упаведа-тантра или Аагамы из Атхарваведы.