स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः ।
सवनाद्यैश्च सा शिक्षा वर्णानां पाठशिक्षणात् ॥ ४१ ॥
अन्वयः—यच्च स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः सवनाद्यैः वर्णानां पाठशिक्षणात्
सा शिक्षा ॥ ४१ ॥व्याख्या—यच्च, स्वरतः= उदात्तानुदात्तादिभेदेन, कालतः = समयानुसारेण, स्थानात् = कण्ठ्यताल्वादिप्रदेशात्, प्रयत्नानुप्रदानतः = प्रयत्नसहकारेण, सवनाद्यैः= यज्ञस्नानोत्पत्यादिभिः, वर्णानाम् = अक्षराणाम्, पाठस्य = वाचनस्य, शिक्षणम् = पाठनम्, सा = उक्ता, शिक्षा = पूर्ववर्णितसन्दर्भः शिक्षाग्रथः इति ॥ ४२ ॥
हिन्दी—जिसमें उदात्त, अनुदात्त तथा स्वारित स्वरों से समयानुसार स्थान और प्रयत्न के साथ वर्णों के पढने की शिक्षा हो, उसे शिक्षा कहते हैं ॥ ४१ ॥
स्वरत इति। यच्च स्वरतः उदात्तादिभेदेन कालतः कालक्रमेण स्थानात् कण्ठताल्वादिप्रदेशात् प्रयत्नानुप्रदानतः प्रयत्नसहकारेण सवनाद्यैः उत्पत्त्यादिभिः उच्चारणादिभिरित्यर्थः, पाठस्य शिक्षणं सा शिक्षा तादृशशिक्षासमन्वितः सन्दर्भः शिक्षाग्रन्थः इति भावः ॥ ४१ ॥
Та в которой дается представление о фонетическом звучании удатта, анудатта и сварита в сочетании со сварами в зависимости от времени, пространства(в ротовой полости где образуется звук) и напряжения (при произношении) называется Шикша (раздел посвященный фонетике — उच्चारण).