Перевод Шукра нити 27

ऋग्यजुः साम चाथर्वा वेदा आयुर्धनुः क्रमात्।
गान्धर्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥ २७ ॥

अन्वयः—ऋक् यजुः साम अथर्वा — एते वेदा, आयुः धनुः गान्धर्वः तन्त्राणि च क्रमेण उपवेदाः प्रकीर्त्तिताः॥ २७ ॥

व्याख्या—ऋक् = ऋग्वेदः, यजुः = यजुर्वेदः, साम = सामवेदः, अथर्वा = अथर्ववेदः, एते = चत्वारः, क्रमेण = क्रमशः, उपवेदाः = प्रधानवेदातिरिक्ताः, एते चत्वारः गौणा वेदाः,
प्रकीर्त्तिताः= कथिताः, तन्त्राणि तु स्थापत्यवेदनाम्ना ख्यातेति ॥ २७॥

हिन्दी—ये विद्याएँ—ऋग्वेद, यजुर्वेद, सामवेद तथा अथर्ववेद-ये चार वेद हैं तथा क्रमशः आयुर्वेद, धनुर्वेद, गान्धर्ववेद तथा तन्त्र अर्थात् स्थापत्यवेद – ये चार उपवेद हैं ॥ २७ ॥

ऋगिति। ऋक्, यजुः, साम तथा अथर्वा एते चत्वारः वेदाः । आयुर्वेदः, धनुर्वेदः, गान्धर्वः तन्त्राणि च एते उपवेदाः प्रकीर्त्तिताः ॥ २७ ॥

Эти науки — Ригведа, Яджурведа, Самаведа и Атхарваведа — это четыре Веды и, соответственно, Аюрведа, Дханурведа, Гандхарваведа и Тантра, то есть Стхапатьяведа (Вастушастра), — это четыре подведы(उपवेद).

Перевод Шукра нити 27

Добавить комментарий

Пролистать наверх