Традиция

Шукра нити 90

पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता ।दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता॥९०॥ अन्वयः— पशुचर्मणाम् अङ्गेभ्यः निर्हारस्य क्रियायां ज्ञानं कला । दुग्धदोहादीनां घृतान्तं विज्ञानं कला स्मृता ॥ ९० ॥व्याख्या— पशुचर्मणाम् = अजिनानाम् अङ्गेभ्यः = पशुशरीरावयवेभ्यः, निर्हारस्य = निष्कासनस्य, क्रियायाम् = कृतौ, ज्ञानम् = बोधः, कला, स्मृता = कथिता । दुग्धदोहादीनाम् = गवादिदुग्धदोहनादीनाम्, घृतान्तम् = दुग्धात् घृतनिष्कासनपर्यन्तम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = […]

Шукра нити 89

स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः ।मार्दवादिक्रियाज्ञानं चर्मणान्तु कला स्मृता ॥ ८९ ॥ अन्वयः — स्वर्णाद्यलङ्कारकृति: लेपादिसत्कृतिः कला । चर्मणां मार्दवादिक्रियाज्ञानं कला स्मृता ॥ ८९ ॥ व्याख्या – स्वर्णादीनाम् = सुवर्णप्रभृतीनां धातूनाम्, अलङ्कारकृतिः = आभूषणनिर्माणम्, लेपादिसत्कृतिः= तदुपरिप्रलेपनकृत्यम्, कला । चर्मणाम् = अजिनानाम्, मार्दवादीनाम् = कोमलीकरणादीनाम्, क्रिया = कृतिः (The art of converting row ride in to Leather or […]

Шукра нити 88

स्वर्णादीनान्तु याथात्म्यविज्ञानञ्च कला स्मृता ।कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥ ८८ ॥ अन्वयः—स्वर्णादीनां याथात्म्यविज्ञानं कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कलास्मृता ॥ ८८ ॥व्याख्या— स्वर्णादीनाम् = कनकप्रभृतीनाम्, याथात्म्यस्य = = यथार्थस्वरूपस्य, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा कृत्रिमाणाम् = अनैसर्गिकानाम्, स्वर्णरत्नादीनाम् = सुवर्णमाणिक्यादीनाम्, क्रियाज्ञानम् = रचनाकौशलम्, कला, स्मृता = कथिता ॥ ८८ ॥हिन्दी — सुवर्णादि धातुओं […]

Шукра нити 87

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । वेधादिसदसज्ज्ञानं रत्नानाञ्च कला स्मृता ।। ८७ ।। अन्वयः—अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । रत्नानाञ्च वेधादिसदसज्ज्ञानं कला स्मृता ॥ ८७ ॥ व्याख्या— अनेकेषाम् = विविधानाम्, तन्तूनाम् = सूत्राणाम्, संयोगैः = सम्मिश्रणैः, पटबन्धः —पटानाम् = वस्त्राणाम्, बन्धः = वयनमपि, कला, स्मृता = ख्यातेति । रत्नानाम् = मणीनाम्, वेधादिषु = छिद्रादिषु, सदसज्ज्ञानम् = उत्कृष्टापकृष्टत्वबोधः, […]

Шукра нити 86

नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥ ८६ ॥ अन्वयः–नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानं तु कला स्मृता ॥ ८६ ॥ व्याख्या–नौकानाम् = तरणीनाम्, रथानाम् = स्यन्दनानाम्, यानादीनाम् = शकटादीनाम्, | कृतौ = रचनायाम्, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा सूत्रादीनाम् = तन्त्वादीनाम्,रज्जूनाञ्च = दाम्नाञ्च, करणे = निर्माणे, ज्ञानम् = […]

Шукра нити 85

हीनमध्यादिसंयोगवर्णाद्यै रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ।। ८५ ।। अन्वयः—हीनमध्यादिसंयोगवर्णाद्यैः रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैः क्रिया कला ॥ ८५ ॥ व्याख्या—हीनमध्यादयः= मन्दमध्यादिकाः, संयोगाः = संश्लेषाः येषाम्, तैः वर्णाद्यैः = रागाद्यैः, रञ्जनम् = चित्राङ्कनमपि, कला । तथा जलानाम् = सलिलानाम्, वायूनाम् = पवनानाम्, अग्नीनाञ्च = वह्नीनाञ्च, संयोगैः = सम्मिश्रणैः, निरोधैश्च = अवरोधैश्च, या क्रिया = या […]

Шукра нити 84

तडागवापीप्रासादसमभूमिक्रिया कला ।घट्याद्यनेकयन्त्राणां वाद्यानान्तु कृतिः कला ॥ ८४ ॥ अन्वयः—तडागवापीप्रासादसमभूमिक्रिया कला । तथा घट्याद्यनेकयन्त्राणां वाद्यानां तु कृतिःकला ॥ ८४ ॥व्याख्या—तडागानाम् = सरोवराणाम्, वापीनाम् = वापिकानाम्, प्रासादानाम् =राजभवनानाम्, समभूमीनाञ्च — भूम्याः = पृथिव्याः, समानीकरणस्य क्रिया कलेति, तथा घट्यादीनाम् = समयनिरूपकादीनाम्, अनेकेषाम् = विविधानाम्, यन्त्राणाम्, वाद्यानाम् = वादनयन्त्राणाञ्च, कृतिः= क्रिया, कलेति ॥ ८४ ॥ हिन्दी — तालाब, […]

Шукра нити 83

मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।पृथक् कलाचतुष्कं तु चित्राद्यालेखनं कला ॥ ८३ ॥ अन्वयः— मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया कला, चित्राद्यालेखनं कला । एतत्कलाचतुष्कं तु पृथक् उक्तम् ॥ ८३ ॥व्याख्या — मृत्तिकानां = मृदानाम्, काष्ठानाम् = दारूणाम्, पाषाणानाम् = प्रस्तराणाम्, धातूनाञ्च = खनिजानाञ्च, ये भाण्डादयः = पात्रादयः, सत्क्रिया= सुष्ठुरूपेण तेषां रचना, तत् कलेति, तथा चित्रादीनाम् = आलेख्यादीनाम्, आलेखनम् = चित्राङ्कनम्, कला । एतत् […]

Шукра нити 82

विविधासनमुद्राभिर्देवतातोषणं कला । सारथ्यं च गजाश्वादेर्गतिशिक्षा कला स्मृता ।। ८२ ।। अन्वयः—विविधासनमुद्राभिः देवतातोषणं कला । सारथ्यं गजाश्वादेः च गतिशिक्षा कला स्मृता ॥ ८२ ॥ व्याख्या—विविधेन = अनेकप्रकारकेण, आसनेन = उपवेशनाधारेण, मुद्राभिः = शरीरा- वयवविन्यासैः, देवतानाम् = सुराणाम्, तोषणम् = प्रीणनम्, कला । तथा सारथ्यम् = रथसञ्चालनम्, “गजानाम् = करिणाम्, अश्वानाञ्च = हयानाञ्च, गतिशिक्षा = सञ्चालनबोधः, […]

Шукра нити 81

गजाश्वरथगत्या तु युद्धसंयोजनं कला ।कलापञ्चकमेतद्धि धनुर्वेदागमे स्थितम् ॥ ८१ ॥ अन्वयः—गजाश्वरथगत्या युद्धसंयोजनं कला । एतत् कलापञ्चकं हि धनुर्वेदागमे स्थितम् ॥ ८१ ॥व्याख्या—गजानाम् = हस्तिनाम्, अश्वानाम् = घोटकानाम्, रथानाञ्च = स्यन्दनानाञ्च, गत्या = गतिविशेषेण, युद्धसंयोजनम् = रणनीतिनिर्धारणम्, कला = कलाख्येति । एतत् = पूर्वोक्तं सकलम्, कलापञ्चकम् = एषा पञ्चविधा कला, हि = यतः, धनुर्वेदागमे = धनुर्वेदशास्त्रे, […]

Пролистать наверх