स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः ।सवनाद्यैश्च सा शिक्षा वर्णानां पाठशिक्षणात् ॥ ४१ ॥ अन्वयः—यच्च स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः सवनाद्यैः वर्णानां पाठशिक्षणात्सा शिक्षा ॥ ४१ ॥ व्याख्या—यच्च, स्वरतः= उदात्तानुदात्तादिभेदेन, कालतः = समयानुसारेण, स्थानात् = कण्ठ्यताल्वादिप्रदेशात्, प्रयत्नानुप्रदानतः = प्रयत्नसहकारेण, सवनाद्यैः= यज्ञस्नानोत्पत्यादिभिः, वर्णानाम् = अक्षराणाम्, पाठस्य = वाचनस्य, शिक्षणम् = पाठनम्, सा = उक्ता, शिक्षा = पूर्ववर्णितसन्दर्भः शिक्षाग्रथः इति […]
Шукра нити 40
विविधोपास्यमन्त्राणां प्रयोगाः सुविभेदतः । कथिताः सोपसंहारास्तद्धर्मनियमैश्च षट् । अथर्वणां चोपवेदस्तन्त्ररूपः स एव हि ॥ ४० ॥ अन्वयः—यत्र विविधोपास्यमन्त्राणां सोपसंहाराः षट् प्रयोगाः धर्मनियमैः सह सुविभेदतः कथिताः, स एव अथर्वणाम् उपवेदः तन्त्रस्वरूपः एव हि ॥ ४० ॥ व्याख्या—यत्र, विविधानाम् = अनेकानाम्, उपास्यानाम् = आराध्यानाम्, मन्त्राणाम्= वेदवाक्यानाम्, सोपसंहाराः — उपसंहारेण = पर्यवसानेन सहिताः षट् प्रयोगाः = षट् तान्त्रिकोपचाराः, […]
Шукра нити 39
स्वरैरुदात्तादिधर्मैस्तन्न्रीकण्ठोत्थितैः सदा ।सतालैर्गानविज्ञानं गान्धर्वो वेद एव सः ।। ३९ ।। अन्वयः—येन उदात्तादिधर्मैः तथा तन्त्रीकण्ठोत्थितैः सतालैः सदा गानविज्ञानं, स एव गान्धर्वो वेद इति ॥ ३९ ॥ व्याख्या–येन = वेदेन, उदात्तादिधर्मैः = उदात्तानुदात्तस्वरितस्वरूपैः, तथा तन्त्रीकण्ठोत्थितैः वीणागलोत्पन्नैः निषादादिभिः सप्तभिः स्वरैः, सतालैः = सङ्गीते कालक्रियासहितैः गानविज्ञानम् = गीतविज्ञानम्, भवति, सः = असौ, सदा = सर्वदा, गान्धर्ववेदः सामवेदस्योपवेदः इति ज्ञातव्यः […]
Шукра нити 38
युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत् ।यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥ ३८ ॥ अन्वयः–येन युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत्, सः अयं यजुर्वेदोपवेदः धनुर्वेदोभवति ॥ ३८ ॥ व्याख्या— येन = ज्ञानेन, युद्धेषु = समरेषु, शस्त्रेषु = प्रहरणेषु, अस्त्रेषु = आयुधेषु, व्यूहादि = सैन्यादि, रचनासु = विन्यासेषु, च, कुशलः = दक्षः, भवेत् = स्यात्, यजुर्वेदस्य = यजुः श्रुतेः, उपवेदः= प्रधानवेदातिरिक्तगौणवेदः, धनुर्वेदः = धनुर्विद्यानिरूपकशास्त्रम्, इति […]
Шукра нити 37
विन्दत्यायुर्वेत्ति सम्यगाकृत्यौषधिहेतुतः ।यस्मिन्नृग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥ ३७ ॥ अन्वयः—यस्मिन् आयुः विन्दति आकृत्या औषधिहेतुतः सम्यक् वेत्ति, सः ऋग्वेदोपवेदः आयुर्वेदसंज्ञकः ॥ ३७ ॥ व्याख्या—यस्मिन् = विदिते भागे, तदनुष्ठानात् आयुः = दीर्घजीवनम् विन्दति = प्राप्नुवति यस्मिंश्च, आकृत्या = रोगाणां स्वरूपज्ञानेन, औषधिहेतुतः = चिकित्साविज्ञानेन, हेतुतः= कारणेन, आयुः= जीवनम्, वेत्ति = जानाति, रोगाणामिति भावः, सः = संहिताभागः, ऋग्वेदस्योपवेदः, आयुर्वेदसंज्ञकः = […]
Шукра нити 36
अथर्वाङ्गिरसो नाम ह्यपास्योपासनात्मकः ।इति वेदचतुष्कन्तु ह्यद्दिष्टञ्च समासतः || ३६ || अन्वयः—उपास्योपासनात्मकः अथर्वाङ्गिरसः नाम । इति वेदचतुष्कं समासतः हि उद्दिष्टम् ॥ ३६ ॥व्याख्या—उपास्यानाम् = उपासनीयानां देवानाम्, उपासनात्मकः= आराधनात्मको वेद- भागः, अथर्वाङ्गिरसः= अथर्ववेदः इति नाम्ना ख्यातः । इति = अनेन प्रकारेण, वेदचतुष्कम् = चत्वारो वेदाः, समासतः= सङ्क्षेपेण, उद्दिष्टम् = कथितम् ॥३६॥ हिन्दी—वेद के जिस भाग में उपासनीय […]
Перевод Шукра нити 35
उद्गीथं यस्य शस्त्रादेर्यज्ञे तत् सामसंज्ञकम् ।। ३५ ।। अन्वयः— शस्त्रादेः यज्ञे यस्य उद्गीथं तत् सामसंज्ञकम् ॥ ३५ ॥ व्याख्या—शस्त्रादेः= आयुधादेः, यज्ञे = यागे, यस्य = आयुधस्य, उद्गीथम् = उच्चैः गायनं भवति, तत् सामसंज्ञकं = सामवेद इति नाम्ना कथितम् ॥ ३५ ॥ हिन्दी – यज्ञ में हथियारों की स्तुति ऊँची आवाज में गाकर जिस संहिता में […]
Перевод Шукра нити 34
प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः ।आध्वर्य्यवं यत्र कर्म्म त्रिगुणं यंत्र पाठनम् ।मन्त्रब्राह्मणयोरेव यजुर्वेदः स उच्यते ॥ ३४ ॥ अन्वयः—यत्र मन्त्राः प्रश्लिष्टं पठिताः तथा वृत्तगीतिविवर्जिताः, यत्र च आध्वर्यवं कर्म, यत्र च मन्त्रब्राह्मणयोरेव त्रिगुणं पठितं, सः यजुर्वेदः उच्यते ॥ ३४ ॥ व्याख्या—यत्र = यस्मिन्, मन्त्राः = संहिताभागाः, प्रश्लिष्टम् = युक्तियुक्ताः, यथा तथा पठिताः= उद्घोषिताः, तथा = तेनैव प्रकारेण, वृत्तेन = […]
Перевод Шукра нити 33
ऋयूपा यत्र ये मन्त्राः पादशोऽर्द्धर्चशोऽपि वा ।येषां हौत्रं स ऋग्भागः समाख्यानं च यत्र वा ॥ ३३ ॥ अन्वयः — यत्र ऋयूपाः -यत्र ऋग्रूपाः ये मन्त्राः पादशः अर्द्धर्चशः वा येषां होत्रं न, यत्र वा समाख्यानं, सःऋग्भागः ॥ ३३ ॥ व्याख्या—यत्र = यस्मिन्, ऋग्रूपा:= ऋचास्वरूपाः स्तुतिपरकाः, ये मन्त्राः= वेदानां संहिताभागः, पादशः= चतुर्थचरणेन, अर्द्धर्चशः = ऋचायाः अर्द्धांशेन, वा […]
Перевод Шукра нити 32
जपहोमार्चनं यस्य देवताप्रीतिदं भवेत् ।उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम् ॥ ३२ ॥ अन्वयः–यस्य उच्चारात् जपहोमार्चनं देवताप्रीतिदं भवेत्, तत् मन्त्रसंज्ञं च तद्विनियोगि ब्राह्मणम् ॥ ३२ ॥ व्याख्या—यस्य = वेदभागस्य, उच्चारात् = उच्चारणात्, जपः = मुहुर्मुहुर्मन्त्रोच्चारणम्, होमः= देवयज्ञः, अर्चनम् = देवाराधनम्, देवतानाम् = सुराणाम्, प्रीतिदं = हर्षदायकम्, भवेत् = स्यात्, तत् = वेदभागः, मन्त्रसंज्ञम् = मन्त्रनाम्ना विख्यातम्, च […]