культура Индии

Шукра нити 65

पृथक् पृथक् तु विद्यानां लक्षणं सम्प्रकाशितम् ।कलानां न पृथङ्नाम लक्ष्म चास्तीह केवलम् ।। ६५ ।। अन्वयः—विद्यानां पृथक् पृथक् लक्षणं सम्प्रकाशितम्, केवलं कलानां पृथक् नाम लक्ष्म इह न अस्ति ॥ ६५ ॥व्याख्या—विद्यानाम् = विज्ञानानाम्, पृथक् पृथक् = भिन्नं भिन्नम्, लक्षणम् = परिभाषा, सम्प्रकाशितम्—सम्यग्रूपेण प्रकाशितम् = कथितम्, केवलम् = मात्रम्, कलानाम् = शिल्प- विद्यानाम्, पृथक् = भिन्नम्, नाम […]

Шукра нити 64

कल्पितश्रुतिमूलो वामूलो लोकैर्धृतः सदा ।देशादिधर्म्मः स ज्ञेयो देशे देशे कुले कुले ॥ ६४ ॥ अन्वयः — यः देशे देशे कुले कुले लोकैः कल्पिता श्रुतिमूलः वा अमूलः सदा धृतः सः देशादिधर्मः ज्ञेयः ॥ ६४॥ व्याख्या—यः= धर्मः, देशे देशे = प्रतिदेशम्, कुले कुले = प्रतिकुलम्, लोकैः= जनैः, कल्पिता = स्थापिता, श्रुतिमूलः — श्रुतिः = वेदः, मूलम् = […]

Шукра нити 63

ईश्वरः कारणं यत्रादृश्योऽस्ति जगतः सदा।श्रुतिस्मृती विना धर्माधर्मौ स्तस्तच्च यावनम्।श्रुत्यादिभिन्नधर्मोऽस्ति यत्र तद् यावनं मतम् ॥ ६३ ॥ अन्वयः—यत्र सदा अदृश्यः ईश्वरः जगतः कारणम् अस्ति तथा श्रुतिस्मृती विना धर्माधर्मौ स्तः, तत् यावनम्। यत्र च श्रुत्यादिभिन्नः धर्मः अस्ति तत् यावनं मतम् ॥ ६३ ॥ व्याख्या — यत्र = यस्मिन् विचारे, सदा सर्वदा, अदृश्य: = अगोचरः, ईश्वरः = :- परमात्मा, […]

Шукра нити 62

विना कौशिकशास्त्रीयसङ्केतैः कार्य्यसाधिका ।यथाकालोचिता वाग् वावसरोक्तिश्च सा स्मृता ।। ६२ ।। अन्वयः—कौशिकशास्त्रीयसङ्केतैः विना कार्यसाधिका यथाकालोचिता या वाक् साअवसरोक्तिः स्मृता ॥६२॥ व्याख्या–कौशिकैः= शब्दसङ्ग्राहकग्रन्थैःशास्त्रीयसङ्केतैः= शास्त्रविषयकाभिप्राय- व्यञ्जकचेष्टाभिः, विना = अन्तरेण, कार्यसाधिका = अभिप्रायव्यञ्जिका, यथाकालोचिता = समयानुसारिणी, या वाक् = वाणी, सा अवसरोक्तिः, स्मृता = कथिता ॥ ६२ ॥ हिन्दी — शब्दकोश एवं शास्त्रसम्मत अभिप्रायव्यञ्जक अर्थों के बिना ही […]

Шукра нити 61

लोकसङ्केततोऽर्थानां सुग्रहा वाक् तु दैशिकी ॥ ६१ ॥ अन्वयः— लोकसङ्केततः अर्थानां सुग्रहा वाक् तु दैशिकी भवति ॥ ६१ ॥ व्याख्या— लोकसङ्केततः — लोकानाम् = जनानाम्, सङ्केततः = अभिप्रायव्यञ्जकचेष्टया, अर्थानाम् = शब्दाशयानाम् सुग्रहाः = सुष्ठुतया ग्राह्याः, वाक् = वाणी, तु, दैशिकी = देशभाषा भवति ॥ ६१ ॥ हिन्दी – लोगों के अभिप्रायव्यञ्जक चेष्टा से शब्दों के […]

Шукра нити 58

प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः ।कथिता यत्र तच्छिल्पशास्त्रमुक्तं महर्षिभिः ।। ५८ ।। अन्वयः— यत्र प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः कथिता: महर्षिभिः, तत् शिल्पशास्त्रम् उक्तम् ॥ ५८ ॥व्याख्या—यत्र = यस्मिन् शास्त्रे, प्रासादानाम् = सौधानां, नृपसदनानां वा, प्रतिमानाम् = आलेख्यानाम्, मूर्तीनाञ्च, आरामगृहाणाम् = उपवनसदनानाम्, वाप्यादीनाम् = पुष्करादीनाम्, शुक्रनीति:सत्कृतिः= सुनिर्माणम्, कथिताः = उक्ताः, महर्षिभिः = मुनिभिः, तत् शिल्पशास्त्रम्, उक्तम् = कथितम् ॥ ५८ ॥ हिन्दी—–जिस शास्त्र में […]

Шукра нити 55

युक्तिर्बलीयसी यत्र सर्वं स्वाभाविकं मतम् ।कस्यापि नेश्वरः कर्त्ता न वेदो नास्तिकं हि तत् ।। ५५ ।। अन्वयः—यत्र युक्तिर्बलीयसी, सर्वं स्वाभाविकं मतं कस्यापि कर्त्ता ईश्वरः न वेदश्च न, तत् नास्तिकाम् ॥ ५५ ॥ व्याख्या—यत्र = यस्मिन्सिद्धान्ते, युक्तिः = ऊहा, बलीयसी : अतिबलवती, सर्वम्= निखिलं वस्तु, स्वाभाविकम् = नैसर्गिकम्, मतम् = निष्पादितम्, कस्यापि = वस्तुनः, कर्त्ता = […]

Шукра нити 54

वर्णादिधर्म्मस्मरणं यत्र वेदाविरोधकम् ।कीर्त्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्त्तिता ।। ५४ ।। अन्वयः—यत्र वेदाविरोधकं वर्णादिधर्मस्मरणं च अर्थशास्त्राणां कीर्त्तनं, सा स्मृतिः प्रकीर्त्तिताः ॥ ५४ ॥ व्याख्या—यत्र = यस्मिन् ग्रन्थे, वेदाविरोधकम् – वेदानाम् = श्रुतीनाम्, अविरोधकम् = अविसंवादः, वर्णादिधर्मस्मरणम् — वर्णादीनाम् = ब्राह्मणादीनाम्, आदिपदेनाश्रमादीनाञ्च धर्म = कर्त्तव्यस्य, स्मरणम् = अनुचिन्तनम्, च = पुनः, अर्थशास्त्राणाम् = धनप्राप्तिरक्षावृद्ध्युपाय- दर्शकं […]

Шукра нити 53

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं यस्मिन् पुराणं तद् विकीर्त्तितम् ।। ५३ । अन्वयः — यस्मिन् सर्गः प्रतिसर्गः वंशः मन्वन्तराणि च तथा वंशानुचरितं तत् पुराणं विकीर्त्तितम् ॥ ५३ ॥ व्याख्या – यस्मिन् = ग्रन्थे, सर्गः = जगदुत्पत्तिः, प्रतिसर्गः = प्रलयः, वंशः = श्रीमतां कुलम्, मन्वन्तराणि = ब्रह्मादिनस्य चतुर्दशो भागः, वा, एकसप्ततिचतुर्युग्यात्मकः कालः, च = पुनः, […]

Шукра нити 52

प्राग्वृत्तकथनं चैकराजकृत्यमिषादितः ।यस्मिन् स इतिहासः स्यात् पुरावृत्तः स एव हि ॥ ५२ ॥ अन्वयः– यस्मिन् एकराजकृत्यमिषादितः यत् प्राग्वृत्तस्य कथनं, सः इतिहासः स्यात् स एव हि पुरावृत्तः ॥ ५२ ॥ व्याख्या—यस्मिन् = गन्थे, एकराजस्य = एकस्य राज्ञः कृत्यस्य = कर्मणः, मिषात् = व्यपदेशात्,इतः यत्प्राग्वृत्तस्य = पूर्ववृत्तान्तस्य, कथनम् = ख्यापनम्, सः इतिहासः, स्यात् = भवेत्, स एव […]

Пролистать наверх