совершенство

Шукра нити 60

सरसालङ्कृतादुष्टशब्दार्थं काव्यमेव तत् ।विलक्षणचमत्कारबीजं पद्यादिभेदतः ॥ ६० ॥ अन्वयः—सरसालङ्कृतादुष्टशब्दार्थं तत् काव्यमेव पद्यादीनां भेदतः विलक्षणचमत्कार-बीजम् ॥ ६० ॥ व्याख्या—सरसौ = रसान्वितौ, अलङ्कृतौ = अलङ्कारसहितौ, अदुष्टौ = दोषरहितौ, शब्दार्थौ —शब्दश्च = सार्थकपदश्च, अर्थश्च = शब्दार्थौ, यत् तत् काव्यमेव, तच्च पद्यादीनाम्= श्लोकादीनाम्, भेदतः= भेदेन, विलक्षणस्य = अलौकिकस्य चमत्कारस्य, साश्चर्यानन्दस्य, बीजम् = कारणमिति बोध्यम् ॥ ६० ॥ हिन्दी— दोष […]

Шукра нити 59

समन्यूनाधिकत्वेन सारूप्यादिप्रभेदतः ।अन्योऽन्यगुणभूषा तु वर्ण्यतेऽलङ्कृतिश्च सा ॥ ५९ ॥ अन्वयः—समन्यूनाधिकत्वेन सारूप्यादिप्रभेदतः अन्योऽन्यगुणभूषा सा अलङ्कृतिःवर्ण्यते ॥ ५९ ॥ व्याख्या—समत्वेन = तुल्यत्वेन, न्यूनत्वेन = ऊनत्वेन, आधिक्येन = बहुत्वेन, वा = अथवा, सारूप्यादिप्रभेदतः= सादृश्यादिभेदेन, अन्योन्यस्य = परस्परस्य, गुणानाम् = धर्माणाम्, यत् वर्ण्यते = वर्णनं क्रियते, सा = तद्ग्रन्थः, अलङ्कृतिः = अलङ्कारशास्त्रम् इति कथ्यते ॥ ५९ ॥ हिन्दी — […]

Шукра нити 58

प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः ।कथिता यत्र तच्छिल्पशास्त्रमुक्तं महर्षिभिः ।। ५८ ।। अन्वयः— यत्र प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः कथिता: महर्षिभिः, तत् शिल्पशास्त्रम् उक्तम् ॥ ५८ ॥व्याख्या—यत्र = यस्मिन् शास्त्रे, प्रासादानाम् = सौधानां, नृपसदनानां वा, प्रतिमानाम् = आलेख्यानाम्, मूर्तीनाञ्च, आरामगृहाणाम् = उपवनसदनानाम्, वाप्यादीनाम् = पुष्करादीनाम्, शुक्रनीति:सत्कृतिः= सुनिर्माणम्, कथिताः = उक्ताः, महर्षिभिः = मुनिभिः, तत् शिल्पशास्त्रम्, उक्तम् = कथितम् ॥ ५८ ॥ हिन्दी—–जिस शास्त्र में […]

Шукра нити 57

शशादिभेदतः पुंसामनुकूलादिभेदतः ।पद्मिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः ।तत् कामशास्त्रं सत्त्वादेर्लक्ष्म यत्रास्ति चोभयोः ।। ५७ ।। अन्वयः — पुंसां शशादिभेदतः तथा अनुकूलादिभेदतः स्त्रीणां पद्मिन्यादिप्रभेदेन तथा स्वीयादिभेदतः यत्र उभयोः सत्त्वादेः लक्ष्म तत् कामशास्त्रम् ॥५७॥ व्याख्या—यत्र = यस्मिन् शास्त्रे, पुंसाम् = नराणाम्, शशादिभेदतः शशकमृगाश्वगज- जातिभेदात्, तथा = तेनैव प्रकारेण, अनुकूलादिभेदतः = अनुकूलशठधृष्टादिभेदात्, तथा स्त्रीणाम् = नारीणाम्, पद्मिन्यादिभेदतः = पद्मिनीशङ्खिनीचित्रिणिहस्तिन्यादिजातिभेदात्, तथा स्वीयादिभेदतः= […]

Шукра нити 56

श्रुतिस्मृत्यविरोधेन राजवृत्तादिशासनम् । सुयुक्त्यार्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ॥ ५६ ॥ अन्वयः—यत्र श्रुतिस्मृत्यविरोधेन राजवृत्तादिशासनं सुयुक्त्यार्थार्जनं, तद् अर्थशास्त्रम् उच्यते ॥ ५६ ॥ व्याख्या—यत्र = यस्मिन् शास्त्रे, श्रुतिस्मृत्यविरोधेन — श्रुतीनाम् = वेदानाम्, स्मृतीनाम् = मन्वादिस्मृतीनाम्, अविरोधेन = अविरुद्धेन, राजवृत्तादिशासनम् = राज्ञः = नृपस्य, वृत्तादीनाम् = आचारादीनाम्, शासनम् = उपदेशः, तथा सुयुक्त्या = सुचातुर्येण, अर्थार्जनम् — अर्थानाम् = धनानाम्, […]

Шукра нити 55

युक्तिर्बलीयसी यत्र सर्वं स्वाभाविकं मतम् ।कस्यापि नेश्वरः कर्त्ता न वेदो नास्तिकं हि तत् ।। ५५ ।। अन्वयः—यत्र युक्तिर्बलीयसी, सर्वं स्वाभाविकं मतं कस्यापि कर्त्ता ईश्वरः न वेदश्च न, तत् नास्तिकाम् ॥ ५५ ॥ व्याख्या—यत्र = यस्मिन्सिद्धान्ते, युक्तिः = ऊहा, बलीयसी : अतिबलवती, सर्वम्= निखिलं वस्तु, स्वाभाविकम् = नैसर्गिकम्, मतम् = निष्पादितम्, कस्यापि = वस्तुनः, कर्त्ता = […]

Шукра нити 54

वर्णादिधर्म्मस्मरणं यत्र वेदाविरोधकम् ।कीर्त्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्त्तिता ।। ५४ ।। अन्वयः—यत्र वेदाविरोधकं वर्णादिधर्मस्मरणं च अर्थशास्त्राणां कीर्त्तनं, सा स्मृतिः प्रकीर्त्तिताः ॥ ५४ ॥ व्याख्या—यत्र = यस्मिन् ग्रन्थे, वेदाविरोधकम् – वेदानाम् = श्रुतीनाम्, अविरोधकम् = अविसंवादः, वर्णादिधर्मस्मरणम् — वर्णादीनाम् = ब्राह्मणादीनाम्, आदिपदेनाश्रमादीनाञ्च धर्म = कर्त्तव्यस्य, स्मरणम् = अनुचिन्तनम्, च = पुनः, अर्थशास्त्राणाम् = धनप्राप्तिरक्षावृद्ध्युपाय- दर्शकं […]

Шукра нити 53

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुचरितं यस्मिन् पुराणं तद् विकीर्त्तितम् ।। ५३ । अन्वयः — यस्मिन् सर्गः प्रतिसर्गः वंशः मन्वन्तराणि च तथा वंशानुचरितं तत् पुराणं विकीर्त्तितम् ॥ ५३ ॥ व्याख्या – यस्मिन् = ग्रन्थे, सर्गः = जगदुत्पत्तिः, प्रतिसर्गः = प्रलयः, वंशः = श्रीमतां कुलम्, मन्वन्तराणि = ब्रह्मादिनस्य चतुर्दशो भागः, वा, एकसप्ततिचतुर्युग्यात्मकः कालः, च = पुनः, […]

Шукра нити 52

प्राग्वृत्तकथनं चैकराजकृत्यमिषादितः ।यस्मिन् स इतिहासः स्यात् पुरावृत्तः स एव हि ॥ ५२ ॥ अन्वयः– यस्मिन् एकराजकृत्यमिषादितः यत् प्राग्वृत्तस्य कथनं, सः इतिहासः स्यात् स एव हि पुरावृत्तः ॥ ५२ ॥ व्याख्या—यस्मिन् = गन्थे, एकराजस्य = एकस्य राज्ञः कृत्यस्य = कर्मणः, मिषात् = व्यपदेशात्,इतः यत्प्राग्वृत्तस्य = पूर्ववृत्तान्तस्य, कथनम् = ख्यापनम्, सः इतिहासः, स्यात् = भवेत्, स एव […]

Шукра нити 51

चित्तवृत्तिनिरोधस्तु प्राणसंयमनादिभिः । तद् योगशास्त्रं विज्ञेयं यस्मिन् ध्यानसमाधितः ॥ ५१ ॥ अन्वयः—यस्मिन् ध्यानसमाधितः प्राणसंयमनादिभिः चित्तवृत्तिनिरोधस्तु तत् योगशास्त्रं विज्ञेयम् ॥ ५१ ॥ व्याख्या– यस्मिन् = विषये, ध्यानसमाधितः = एकाग्रचित्तेन ब्रह्मणि मनोनिवेशनेन, प्राणसंयमनादिभिः प्राणानाम् = अन्तश्चराणां वायूनाम्, संयमनादिभिः = नियन्त्रणादिभिः, चित्तवृत्तिनिरोधः — चित्तवृत्तेः = मनोवृत्तेः, निरोधः = अवरोधः कथितः, तत् योगशास्त्रम् = मोक्षो- पायकदर्शनशास्त्रविशेषः, विज्ञेयम् = ज्ञातव्यम् […]

Пролистать наверх