культура Индии

Шукра нити 76

शस्त्रसन्धानविक्षेपः पदादिन्यासतः कला ।सन्ध्याघाताकृष्टिभेदैर्मल्लयुद्धं कला स्मृता ।। ७६ ।। अन्वयः—पदादिन्यासतः शस्त्रसन्धानविक्षेपः कला तथा सन्ध्याघाताकृष्टिभेदैः मल्लयुद्धंकला ॥ ७६ ॥ व्याख्या—पदादीनाम् = चरणादीनाम्, न्यासतः = स्थापनक्रमेण, शस्त्राणाम् = आयुधानाम्, सन्धानम् = संयोजनम्, कला, तथा सन्धिषु = सन्धिस्थलेषु, ये आघाताः = आक्रमणम्, प्रक्षेपो वा, आकृष्टयः= आकर्षणानि, च, तेषां भेदैः = प्रकारैः, यत् मल्लयुद्धम् = नियुद्धमपि, कला, स्मृता = […]

Шукра нити 75

संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता ।क्षारनिष्कासनज्ञानं कलासंज्ञन्तु तत् स्मृतम् ।कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ॥ ७५ ।। अन्वयः—धात्वादीनां संयोगापूर्वविज्ञानं कला स्मृता । क्षारनिष्कासनं ज्ञानं कलासंज्ञं तु तत् स्मृतम्। एतत् हि कलादशकम् आयुर्वेदागमेषु च ॥ ७५ ॥ व्याख्या—धात्वादीनाम् = खनिजप्रभृतीनाम्, संयोगस्य = सम्मिश्रणस्य, अपूर्वम् = अभूत- पूर्वम्, विज्ञानम् = विशिष्टज्ञानम्, कला, स्मृता = कथिता । तथा क्षाराणाम् = लवणादीनाम्, निष्कासने […]

Шукра нити 74

धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता ।धातुसाङ्कर्य्यपार्थक्यकरणन्तु कला स्मृता ॥ ७४ ॥ अन्वयः—धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाङ्कर्यपार्थक्यकरणं तु कला स्मृता ॥ ७४ ॥ व्याख्या—धातूनाम् = खनिजानाम्, औषधीनाम् = भैषज्यानाम्, संयोगस्य = सम्मिश्रणस्य, क्रियायाः= निष्पादनस्य, च, ज्ञानम् = बोधः, कला स्मृता । तथा धातूनाम् = अश्मभेदानाम्, साङ्कर्यात् = सम्मिश्रणात्, पार्थक्यकरणम् = भिन्नकरणम्, कला, स्मृता = कथिता ॥ […]

Шукра нити 72

हिङ्ग्वादिरससंयोगादन्नादिपचनं कला ।वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ ७२ ॥ अन्वयः — हिङ्ग्वादिरससंयोगात् अन्नादिपचनं कला । वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥ ७२ ॥ व्याख्या–हिङ्ग्वादीनाम् = बाह्लीकादीनाम्, रससंयोगात् —रसानाम् = साराणाम्, संयोगात् सम्मिश्रणात्, अन्नादीनाम् = भोज्यपदार्थादीनाम्, पचनम् = पाककरणम्, कला । तथा = तेनैव प्रकारेण, वृक्षादीनाम् = तरुगुल्मप्रभृतीनाम्, प्रसवस्य = फलस्य, आरोपः= रोपणम्, तत्पालनादिश्च = संरक्षणादिकञ्च कलेति कथिता ॥ ७२ ॥ […]

Шукра нити 71

मकरन्दासवादीनां मद्यादीनां कृतिः कला ।शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे कला ।। ७१ ।। अन्वयः—मकरन्दासवादीनां मद्यादीनां कृतिः कला । शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधेकला ॥ ७१ ॥ व्याख्या—मकरन्दः= प्रसूनरसः, तेन आसवादीनाम् = मदिरादीनाम्, मद्यादीनाम् = सुराप्रभृतीनाम्, कृतिः= निष्पादनम्, कला भवति । तथा शक्यस्य = कण्टकविद्धस्य, गूढम् = क्लेशरहितं मन्दम्, यथा तथा आहृतौ = निष्कासने, शिरासु व्रणानाम् = स्फोटकादीनाम्, व्यधे: विद्धकरणे […]

Шукра нити 70

अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता ।कलासप्तकमेतद्धि गान्धर्वे समुदाहृतम् ॥ ७० ॥ अन्वयः—अनेकासनसन्धानैः रते: ज्ञानं कला स्मृता । एतद्धि कलासप्तकं गान्धर्वे समुदाहृतम् ॥७० ॥व्याख्या—अनेकैः– बहुविधैः आसनैः = उपवेशनप्रकारैः, रतेः = मैथुनक्रियायाः, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा एतत् = पूर्वोक्तम्, कलानाम् = रतिकलानाम्, सप्तकम् = सप्तविधम्, गान्धर्वे = गन्धर्ववेदे, समुदाहृतम् = सम्यक्प्रकारेणोदाहृतम् ॥ ७० […]

Шукра нити 69

शय्यास्तरणसंयोगपुष्पादिग्रथनं कला ।द्यूताद्यनेकक्रीडाभी रञ्जनं तु कला स्मृता ।। ६९ ।। अन्वयः— शय्यास्तरणसंयोगपुष्पादिग्रथनं कला स्मृता । तथा द्यूताद्यनेकक्रीडाभिः रञ्जनं कला स्मृता ॥ ६९ ॥ व्याख्या— शय्यानाम् = पर्यङ्कानाम्, आस्तरणानाम् = कुथानाम्, संयोगः = सम्यक्सम्पादनम्,पुष्पादीनाम् = प्रसूनादीनाम्, ग्रथनम् = सङ्ग्रन्थनम्, कला = शिल्पविद्या, स्मृता = कथिता । तथा—द्यूतादिभिः= कैतवादिभिः, अनेकाभिः = विविधाभिः, क्रीडाभिः = खेलनैः, रञ्जनम् = […]

Шукра нити 68

वस्त्रालङ्कारसन्धानं स्त्रीपुंसोश्च कला स्मृता ।अनेकरूपाविर्भावकृतिज्ञानं कला स्मृता ॥ ६८ ॥ अन्वयः—स्त्रीपुंसोः वस्त्रालङ्कारसन्धानं कलाः स्मृता । अनेकरूपाविर्भावकृतिज्ञानं कलास्मृता ॥ ६८ ॥ व्याख्या — स्त्रीपुंसोः = नरनार्योः, वस्त्राणाम् = परिधानानाम्, अलङ्काराणाञ्च = आभूषणानाञ्च, सन्धानम् = संयोजनम्, कला = परिधानकलेति, स्मृता = ख्याता। तथा च, अनेकरूपाणाम् = विविधानां स्वरूपाणाम्, आविर्भावाणाम् = प्राकट्यानाम्, कृतौ = निष्पादने, ज्ञानम् = बोधः, […]

Шукра нити 67

हावभावादिसंयुक्तं नर्त्तनं तु कला स्मृता ।अनेकवाद्यकरणे ज्ञानं तद्वादने कला ॥ ६७ ॥ अन्वयः—हावभावादिभिः संयुक्तं नर्तनं कला स्मृता । अनेकवाद्यकरणे ज्ञानं तत् वादनेकला ॥ ६७ ॥ व्याख्या–हावभावादिभिः = पुरुषमनोहारीस्त्रीचेष्टाभेदादिभिः, संयुक्तम् = समन्वितम्, नर्त्तनम् = नृत्यम्, कला = शिल्पविद्या, स्मृता = कथिता । अनेकेषाम् = विविधानाम्, वाद्यानाम्= वादित्राणाम्, करणे = सम्पादने, ज्ञानम् = बोधः, तेषां कला = […]

Шукра нити 66

पृथक् पृथक् क्रियाभिर्हि कलाभेदस्तु जायते।यां यां कलां समाश्रित्य तन्नाम्ना जातिरुच्यते ॥ ६६ ॥ अन्वयः—पृथक् पृथक् क्रियाभिः कलाभेदस्तु जायते । यां यां कलां समाश्रित्य तन्नाम्ना जातिः उच्यते ॥ ६६ ॥व्याख्या—पृथक् पृथक् = विविधाभिः, क्रियाभिः = व्यापारैः, कलाभेदस्तु —कलानाम् = शिल्पानाम्, भेदः= भिन्नता, तु, जायते = भवति, यां यां कलाम् = शिल्पविद्याम्, समाश्रित्य = अवलम्ब्य, तन्नाम्ना = तत्तदाख्यया, […]

Пролистать наверх