традиции Индии

Шукра нити 100

चतुःषष्टिकला ह्येताः सङ्क्षेपेण निदर्शिताः ।यां यां कलां समाश्रित्य निपुणो यो हि मानवः ।नैपुण्यकरणे सम्यक् तां तां कुर्य्यात् स एव हि ।। १०० ।। इति शुक्रनीतौ चतुर्थाध्यायस्य राष्ट्रे आद्यं विद्याकलानिरूपणं नाम तृतीयं प्रकरणम् ।अन्वयः—एताः चतुःषष्टिकलाः सङ्क्षेपेण निदर्शिताः । यः मानवः यां यां कलां समाश्रित्य निपुणः हि स एव हि सम्यक् नैपुण्यकरणे तां तां कुर्यात् ॥ १०० […]

Шукра нити 99

आदानमाशुकारित्वं प्रतिदानं प्रतिदानं चिरक्रिया |कलासु द्वौ गुणा ज्ञेयौ द्वे कले परिकीर्त्तिते ॥ ९९ ॥ अन्वयः—कलासु आशुकारित्वम् आदानं, चिरक्रिया प्रतिदानं द्वौ गुणौ ज्ञेयौ, द्वे कले परिकीर्त्तिते ॥९९ ॥व्याख्या—कलासु = पूर्वोक्तासु विविधासु कलासु, आशुकारित्वं = शीघ्रकारित्वम्, आदानम् = स्वीकरणम्, चिरक्रिया = विलम्बेन कार्यकारित्वम्, प्रतिदानम् = प्रत्यर्पणम्, कलासु एतौ द्वौ, गुणौ = धर्मों, ज्ञेयौ = ज्ञातव्यौ, तस्मात् द्वे = […]

Шукра нити 98

नानादेशीयवर्णानां सुसम्यग् लेखने कला ।ताम्बूलरक्षादिकृतिविज्ञानन्तु कला स्मृता ॥ ९८ ॥ अन्वयःनानादेशीयवर्णानां सुसम्यग् लेखने कला । तथा ताम्बूलरक्षादिकृतिविज्ञानं कला स्मृता ॥ ९८ ॥व्याख्या— नानादेशीयानाम् = विविधजनपदीयानाम्, वर्णानाम् = अक्षराणाम्, सुसम्यक् = सुष्ठुतया, लेखनम् = अङ्कनम्, कला भवति । तथा ताम्बूलानाम् = नागवल्लीदलानाम्, रक्षादौ- संरक्षणे, या कृतिः= क्रिया, तस्य विज्ञानम् = विशिष्टज्ञानम्, कला स्मृता = कथितेति ॥ […]

Шукра нити 97

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।सुयुक्तताडनज्ञानमपराधिजने कला ।। ९७ ।। अन्वयः–शिशोः संरक्षणे क्रीडने च ज्ञानं कला । तथा अपराधिजने सुयुक्तताडनज्ञानं कला ॥ ९७ ॥व्याख्या—शिशोः– बालकस्य, संरक्षणे = रक्षाकरणे, क्रीडने = खेलने च, यत् ज्ञानम्= बोधः, सोऽपि कला, तथा अपराधिजने = दोषीजने, सुयुक्तम् = यथोपयुक्तम्, ताडनम् = हननं, तस्योचितं ज्ञानम् = बोधः, अपि कला भवति […]

Шукра нити 96

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ।। ९६ ।। अन्वयः—लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥ ९६ ॥व्याख्या—लोहाः= अयस्काः, अभिसाराः = उपादानानि येषां तादृशानाम्, शस्त्राणाम् = आयुधानाम्, अस्त्राणाम् = प्रहरणानाम्, कृतौ = करणे, ज्ञानम् = बोधः, कला, स्मृता = कथिता । तथा गजानाम् = हस्तिनाम्, अश्वानाम् = हयानाम्, वृषभानाम् = बलीवर्दाणाम्, उष्ट्राणाम् = दीर्घ- वक्रग्रीवानाम्, पल्याणादीनाम् […]

Шукра нити 95

काचपात्रादिकरणविज्ञानन्तु कला स्मृता ।संसेचनं संहरणं जलानां तु कला स्मृता ।। ९५ ।। अन्वयः—काचपात्रादीनां करणे विज्ञानं कला स्मृता । तथा जलानां संसेचनं संहरणं कला स्मृता ॥ ९५ ॥व्याख्या—काचपात्रादीनां = स्फटिक भाजनादीनां करणे = निर्माणे, विज्ञानम् = विशिष्ट- ज्ञानम्, कला स्मृता = कथिता । तथा जलानाम् = सलिलानाम्, संसेचनम् = सम्यगभ्युक्षणम्, संहरणम् = सङ्कोचनम्, ‘कला’ स्मृता = कथिता […]

Шукра нити 94

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ।। ९४ ।। अन्वयः–मनोऽनुकूलसेवायाः कृतौ ज्ञानं कला स्मृता । तथा वेणुतृणादिपात्राणां कृतिज्ञानंकला स्मृता ॥ ९४ ॥व्याख्या–मनोऽनुकूलायाः= चित्तानुसारिण्याः, सेवायाः = परिचर्यायाः, कृतौ = निष्पादने, ज्ञानम् = बोधः, कलेति । तथा वेणूनाम् = वंशानाम्, तृणादीनाञ्च = घासादीनाञ्च, यानि पात्राणि तेषां कृतौ = करणे, ज्ञानम्, कला स्मृता = कथिता ॥ […]

Шукра нити 93

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥ ९३ ॥ अन्वयः—तिलमांसादिस्नेहानां निष्कासने कृतिः सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणेकला ॥ ९३ ॥ व्याख्या–तिलानाम् = जटुलानाम्, मांसादीनाम् = पिशितादीनाम्, च ये स्नेहाः = तैलानि, तेषाम्, निष्कासने = बहिष्करणे, या कृतिः = क्रिया, सापि कला । किञ्च सीरादीनाम् = गोदारणादीनाम्, आकर्षणे = आलेखने, वृक्षादीनाम् = तरूणाम्, आरोहणे = उपरिगमने, […]

Шукра нити 92

मार्जने गृहभाण्डादेर्विज्ञानन्तु कला स्मृता ।वस्त्रसम्मार्जनञ्चैव क्षुरकर्म कले ह्युभे॥ ९२ ॥ अन्वयः—गृहभाण्डादेः मार्जने विज्ञानं तु कला स्मृता । वस्त्रसम्मार्जनं क्षुरकर्म च उभे हि कले ॥९२॥भाण्डादेः= प्रयुक्तपात्रादेः,व्याख्या– गृहाणाम् = सदनानाम्, मार्जने = परिष्करणे, यद्विज्ञानम् = विशिष्टज्ञानम् तु, कला, स्मृता = कथिता । वस्त्रसम्मार्जनम् = वसनादिप्रक्षालनम्, तथा, क्षुरकर्म = केशकर्तनादिकम् च एते, उभे = द्वे, हीति निश्चयेन, कलेति […]

Шукра нити 91

सीवने कञ्चकादीनां विज्ञानन्तु कलात्मकम् ।बाह्वादिभिश्च तरणं कलासंज्ञं जले स्मृतम् ॥ ९१ ॥ अन्वयः—कञ्चुकादीनां सीवने विज्ञानं कलात्मकं जले बाह्वादिभिः तरणं कलासंज्ञं स्मृतम् ॥ ९१ ॥व्याख्या—कञ्चुकादीनाम् = लम्बाङ्गिकादीनाम्, सीवने = सूचीकर्मणि, विज्ञानम् = विशिष्ट- ज्ञानम्, कलात्मकम् = कलासंज्ञकम्, तथा, जने = सलिले, बाह्वादिभिः = दोर्दण्डादिभिः, तरणम् = सन्तरणम्, कलासंज्ञम् = कलानाम, इति, स्मृतम् = कथितम् ॥ ९१ […]

Пролистать наверх